Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya
View full book text
________________
११६
अन्त्यकर्मदीपकोत्तरार्धे येषां न पचते माता येषां न पचते पिता |
उच्छिष्टं ये च काङ्क्षन्ति तेभ्योऽन्नं दत्तमक्षयम् । इत्यन्नं विकीर्य आचाराद्गन्धादिभिः पूजयेत् । ततः सव्येन हस्तौ पादौ प्रक्षाल्याचम्य श्राद्धदेशं गत्वा पुनराचामेत् । अपसव्येन पितृब्राह्मणाय चुलुकं दत्त्वा, (शि०स०) सव्येन देवब्राह्मणाय दद्यात् । ततो गायत्री मधुवातेति ऋक्त्रयं च जपित्वा भो ब्राह्मणा: अस्मिन् पाकमध्ये यत्किञ्चिद्रोचते तत्प्रतिगृह्यताम् । तृप्ताः स्थ इति पृच्छेत् । तृप्ताः स्मः प्र० । शेषमन्नं किं क्रियताम् कर्ता । इष्टैः सह भुज्यताम् प्र० । ततः पिण्डदानार्थमपसव्येन वेदिकां गोमयोदकेनोपलिप्य (शि० सर्व सव्ये. नैव) "ॐ अपहता असुरा रक्षासि वेदिषदः" इति द. रेखां कृत्वा
ॐ ये रूपाणि प्रतिमुश्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान् लोकात् प्रणुदात्यस्मात् ॥ इति नैऋत्यामुल्मुकं निधायोदकस्पर्श कृत्वा सजलमोटकं गृहीत्वा अद्येहामुकगोत्र ब्रह्मीभूतास्मत्पितः अमुकशर्मन् वसुस्वरूप ( आत्मन् ) पिण्डासने अवनेनिक्ष्व । एवं पितामह० रुद्र० । प्रपितामह आदित्यस्वरूप० । (शि० अन्तरात्मन्० परात्मन्०) । एवमवनिज्योपमूललूनकुशानास्तीर्य सव्येनईशानविष्णुकमलासनकार्तिकेयवहित्रयार्करजनीशगणेश्वराणाम् । क्रौञ्चामरेज्यकलशोद्भवकाश्यपानां पादान्नमामि शिरसा पितृमुक्तिहेतोः ॥
इति पदानि स्मृत्वा गङ्गागयाकुरुक्षेत्रादितीर्थानि च स्मृत्वा पिण्डे पितृस्वरूपं ध्यात्वा वामजानु निपात्य 'भो ब्राह्मण युष्मदनुज्ञया पिण्डप्रदानमहं करिष्ये' इति पृष्ट्वा ॐ कुरुष्वेत्यनुज्ञात: अपसव्यं कृत्वा ( शि०स० ) मोटक ( कुश ) तिलजलयुतं पिण्डं गृहीत्वा अद्येह अमुकगोत्र ब्रह्मीभूतास्मत्पित: अमुकशर्मन् वसुस्वरूप ( आत्मन् ) एषोऽन्नपिण्डोऽमृतस्वरूपो मद्दत्तस्तेऽस्तु इति पिण्डं दत्त्वा
इयं भूमिर्गयातुल्या इदमुदकं गाङ्गम् ( गङ्गाजलतुल्यम् )
अमुकगोत्राय ब्रह्मीभूतायास्मत्पित्रे अमुकशर्मणे वसुस्वरूपायेति ( आत्मने इति ) पिण्डोपरि जलधारां दद्यात् । एवममुकगोत्र पितामह

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169