Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya
View full book text
________________
२३
यतेदशाहै नारायणबलिप्रयोगः एवं कृते विधानेन नारायणबलौ द्विजः ॥ विष्णुलोकमवाप्नोति पुरुषो नात्र संशयः । इति |
अथैतदनुसारी प्रयोगः। कर्ता पुत्रादिदशाहे स्नात्वा कृतनित्यक्रियः सति सम्भवेऽहते धौते वा वाससी परिधाय स्वासने प्राङ्मुख उदङ्मुखो वोपविश्य दीपं प्रज्वलय्याचम्य प्राणानाम्य "यं ब्रह्मवेदान्ताविद” इति “शुक्लाम्बरधरम्"इति च पठित्वा पुष्पाञ्जलिं समर्प्य दक्षिणहस्ते कुशयवजलान्यादाय देशकालौ सङ्कीर्त्य सिद्धिं गतस्य भिक्षोः सम्भावितसर्वपापक्षयपूर्वकं विष्णुलोकावाप्तिद्वारा श्रीनारायणप्रीत्यर्थं नारायणबलिं करिष्ये इति सङ्कल्प्य त्रयोदश कुशमयान् ब्राह्मणान् सम्पाद्य तैलाभ्यङ्गपूर्वकं संस्नाप्य “एतं ते" इति पठित्वा
शुक्ले सिद्धिं गतश्चेत् 'केशवादिद्वादशसम्बन्धिनो ब्राह्मणा: महाविष्णुसम्बन्धी च ब्राह्मणः सुप्रतिष्ठिता वरदा भवन्तु'
कृष्णो सिद्धिं गतश्चेत् 'सङ्कर्षणादिद्वादशसम्बन्धिनो ब्राह्मणाः महाविष्णुसम्बन्धी च ब्राह्मणः सुप्रतिष्टिता०' इति प्रतिष्ठापयेत् । ततस्तान् कुशबटून पूर्ववृद्धथा उत्तरवृद्धथा वा क्रमेण स्थापयेत् । शुक्लपक्षे सिद्धिं गतस्य केशवरूपगुर्वर्थे
"भवान् मया निमन्त्रितः"।
नारायणरूपगुर्वर्थे भ० । माधवरूपगुर्वर्थे भवान् । गोविन्दरूप० । विष्णु० । मधुसूदन० । त्रिविक्रम | वामन० । श्रीधर० । हृषीकेशः । पद्मनाभ० । दामोदर । महाविष्णुरूपगुर्वर्थे भवान् । इति निमन्त्रयेत् ।
कृष्णपक्षे सिद्धिं गतस्य सङ्कर्षणरूपगुर्वर्थे भवान् । वासुदेव० । प्रद्युम्न० । अनिरुद्ध० । पुरुषोत्तम० | अधोक्षज० | नारसिंह० । अच्युत० । जनार्दन० । उपेन्द्र० । हरि० । श्रीकृष्ण० । महाविष्णुः । इति निमन्त्रयेत् । निमन्त्रितोऽस्मि इति प्रत्युक्तिः सर्वत्र । ____ ततो विप्रसन्निधौ स्वाग्रे स्थण्डिलं विधाय परिसमूहनादिवह्निस्थापनान्तं कर्म कृत्वा द्रव्यदेवताभिध्यानं कुर्यात्-हस्ते जलं गृहीत्वा अद्येह नारायणबलिकर्मणाऽहं यक्ष्ये-तत्र प्रजापतिम् इन्द्रम् अग्निं सोमम् आज्येन,

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169