Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 147
________________ शौचकालनिर्णयः। शौचप्रवृत्तिरपोद्यते । आशौचस्य दशाहकालसमाप्त्यैव निवर्त्यत्वात् । अतस्तदपवादभूतपक्षिण्याशौचस्य न तत्र प्रवृत्तिः । पित्राशौचद्वितीयदिने मातृमरणे च पितृदशाहसमाप्तौ एकादशदिने मातृदशाहस्यासमाप्तावपि द्वादशदिने तत्समाप्त्या आशौचस्य निवर्त्यत्वात् पूर्वशेषशुद्धेरप्रसङ्गेन न पक्षिण्याशौचं प्रवर्त्तते । एवं च द्वितीयदिने मातृमरणे एकदिनवृद्धिः फलति । सपिण्डाद्याशौचेन मातापित्रोराशौचापगमो नास्त्येव । एवं पल्याः भाशौचापगमोऽपि नास्ति । तेषां तन्महागुरुत्वात् सर्वाशौचापेक्षया तदशौचस्य बलवत्त्वात् । भर्तुः पत्न्यशौचं पुत्रस्य सपत्नमात्राशौचं च पूर्वाशौचेन निवर्तते एव । महागुरुत्वाभावात् । इयं च पक्षिणी दशमरात्रेः पूर्वं मातृमरणे ज्ञेया । दशम्यां रात्रौ तत्प्रभाते वा मातृमरणे तु गुरुणि लघोरन्तर्गते: “गुरुगा लघु शुद्धथेत्तु" इत्युक्तेश्च व्यहश्यहवृद्धिरेव, न तु व्यहत्र्यहसमुच्चिता पक्षिणी | संख्यान्तरोपजनापत्त्या व्यहादिश्रुतिबाधापत्तेः । अत “एका देया षड् देया" इत्यादौ श्रुतसङ्ख्याबाधापत्त्या समुच्चयो निरस्तो द्वादशे इति निर्णयसिन्धौ । पूर्वाशौचेन या शुद्धिः सूतके मृतके च सा | . सूतिकामग्निदं हित्वा प्रेतस्य च सुतानपि ॥ इति षडशीत्या पूर्वशेषशुद्धेरपवाद उक्त: । अत्र "सूतकाद् द्विगुणं शावं शावाद् द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्ततोऽपि शवदाहकः" । इति वृद्धात्रिवचनेन सूतकादीनामुत्तरोत्तरं प्राबल्यम् । तेन न सूतकादौ शावादिसम्पाते पूर्वनिवृत्त्योत्तरनिवृत्तिः । समानाशौचसम्पाते प्रथमेन समापयेत् | असमानं द्वितीयेन धर्मराजवचो यथा ॥ इति शङ्खयचनेन यहाद्याशौचे त्र्यहाद्याशौचान्तरसंपातेऽपि पूर्वशेषेण शुद्धिः । ___ यहाद्याशौचे दशाहादिगुर्वाशौचसम्पाते तु न पूर्वशेषेण शुद्धिः । गुरुणा लघु शुद्धयेत्तु लघुना नैव तद्गुरु । इति हारीतोक्तः । असमान

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169