Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 146
________________ अन्त्यकर्मदीपकोत्तरार्धे अत ऊर्ध्वं द्वितीयात्तु सूतकान्ताच्छुचिः स्मृतः । एवमेव विचार्य स्यान्मृतके मृतकान्तरे । इति ब्रह्मपुराणात्-इति केचित् | ___ तन्न । एवं सति षष्टादिदिनेषु आशौचान्तरसम्पाते उत्तराशौचापगमेन शुद्धिः, रात्रिमात्रावशेषे च व्यहाच्छुद्धिरिति वैषम्यापत्तेः । “अथ यदि दशरात्रा: सन्निपतेयु: आद्यं दशरात्रमाशौचमानवमात्” इतिबौधायनवचो विरोधाच्च । ___"आद्यं भागद्वयम्” इति ब्राह्मवचनस्य त्वयमर्थः ( निर्णयसिन्धौ )"पूर्वाशौचचरमाहोरात्रस्य दिनरूपे आद्यभागद्वयेऽन्याशौचपाते पूर्वेण शुद्धिः, भागद्वयोज़ रात्रौ सूतकान्तरे द्वितीयात्पूर्वभिन्नात्सूतकान्ताद् व्यहादिरूपाच्छुद्धिः” इति । एतेन "रात्रिशेषे सति द्वाभ्याम्" इति वचने "रात्रिपदमहोरात्रपरम्” इति निरस्तम् । “आद्यं भागद्वयम्” इतिब्राह्मवचनैकवाक्यतया 'पूर्वाशौचान्त्यरात्रौ अन्याशौचसम्पातेऽहोरात्रद्वयमधिकं, रात्रेरन्त्ययामे तु दिनत्रयम् अधिकम्' इत्यर्थस्यैव न्याय्यत्वात् । "रात्रिशेषे सति द्वाभ्याम्" इति वचनं च संपूर्णाशौचे सम्पूर्णाशौचसम्पाते एव । रात्रिशेषे तदन्त्ययामशेषे वा त्रिरात्राद्याशौचसम्पाते तु पूर्वशेषेणैव शुद्धिः । द्विरात्रादिवृद्धः पूर्ववाक्यैर्दशाहविषयत्वात् अपवादाभावे शेषशुद्धरेव सामान्यत: प्रवृत्तेः । पूर्वाशौचान्तर्वधिंतद्वित्रदिनमध्येऽधिकाशौचान्तरपाते वर्धितस्याल्पत्वादधिकेनैव शुद्धिः । नच वर्धितस्य पूर्वशेषत्वं शङ्कनीयम् । रात्रिशेषे पूर्वशेषशुद्धथपवादे नैमित्तिकन्यायोज्जीवनात् । अपवादाभावे उत्सर्गस्य प्राप्तेः। मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥ __इति शङ्खवचने पादत्रयं स्पष्टार्थम् । चतुर्थपादस्य त्वयमर्थः"पित्राशौचमध्ये मातृमृतौ पित्राशौचान्ते मातुः पक्षिणीमधिकां कुर्यात्" इति । इयं च पक्षिणी तृतीयादिदिनपरा, नाद्यदिनद्वये । प्रतिनिमित्तं यन्नैमित्तिकस्य आवृत्तिस्तदपवादभता या पूर्वशेषशुद्धिस्तदपवादत्वात्पक्षिण्याशौचस्य । प्रथमदिने मातृमरणे तु न पूर्वशेषशुद्धथा मातृमरणनिमित्तका

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169