Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 161
________________ आशौचकालनिर्णयः । १४७ 'मातुलादिषु मृतेषु त्रिरात्रम् । मातृष्वसामातुलयोः श्वश्रूश्वशुरयोर्गुरोः । मृते चर्विजि याज्ये च त्रिरात्रेण विशुद्धयति ॥ इति प्रचेतसोक्तेः, इति माधवः । एतत्स्वगृहमृतौ ज्ञेयमिति कमलाकरः। ___ सन्निधिविदेशाद्यपेक्षया व्यवस्था कार्येति शिष्टाः । पितृष्वसुस्तु पक्षिणी । पित्रोः स्वसरि तद्वच्च पक्षिणी क्षपयेन्निशाम् । इति वृद्धमनूक्तेः । पितृष्वसुतुष्पुत्रमरणे तु स्नानमात्रम् । विशेषाशौचापादकवचनाभावात् । बन्धुत्रयमरणे पक्षिणी । मातुले पक्षिणीं रात्रिं शिष्यविंग्बान्धवेषु च । इति मनुस्मरणात् । बान्धवास्त्रिविधा:-आत्मबान्धवाः, पितृबान्धवाः, मातृबान्धवाश्च । आत्मनः पितृष्वसमातृश्वसृमातुलपुत्रा आत्मबान्धवाः । पितुः पितृष्वसमातृष्वसृमातुलपुत्राः पितृबान्धवाः । मातुः पितृष्वसमातृष्वसमातुलपुत्रामातृबान्धवाः । 'जामातृमरणे त्रिरात्रं, श्यालकमरणे पक्षिणी । “जामातरि मृते शुद्धिः" इत्यादिवचनाद्' इति निर्मूलत्वादुपेक्ष्यम् । एवं पितृव्याशौचमपि भ्रातृकन्याया निर्मूलत्वादुपेक्ष्यमेव । गृहे जामातृमरणे त्रिरात्रम् अन्यत्रं न किंचित् । गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन । तस्याप्यशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इत्याङ्गिरसोक्तेः । असपिण्डः सपिण्डसदृशो जामात्रादिः । . मातामहस्य मातामह्याश्च मरणे त्रिरात्रम् । त्र्यहं मातामहाचार्यश्रोत्रियेष्वशुचिर्भवेत् । · इति बृहस्पत्युक्तेः । श्वशूद्रपतिताश्चान्त्या मृताश्चेद् द्विजमन्दिरे ।

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169