Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya
View full book text
________________
१४८
अन्त्यकर्मदीपकोत्तरार्धे शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा । दशरात्राच्छनि मृते मासाच्छूद्रे भवेच्छुचिः । द्वाभ्यां तु पतिते गैहमन्त्ये मासचतुष्टयात् ॥
अत्यन्त्ये वर्जयेद् गेहमित्येवं मनुरब्रवीत् | इति बृहन्मनूक्ते: गृहे श्वशूद्रादिमरणे गृहस्य दशरात्राद्याशौचम् । अन्त्यो म्लेच्छः । 'अत्यन्त्यः श्वपाक' इति वाचस्पतिः । द्विजमरणे तु त्रिदिनम् ।
द्विजस्य मरणे वेश्म विशुद्धयति दिनत्रयात् । इति यमवचनात् । गृहे पश्वादिमरणे तु
ग्राममध्यगतो यावच्छवस्तिष्ठति कस्यचित् । . ग्रामस्य तावदाशौचं निर्गते शुचितामियात् ॥ इति बृहद्विष्णूक्तं यावत्पशुशवस्तिष्ठति तावदाशौचम् ।
"द्विजस्य मरणे वेश्म", "दशरात्राच्छनि मृते” इत्यादिप्रतिपादितमाशौचमेकभमिकगृहे एव । द्वित्रादिभूमिकगृहे तु ग्रामवद् यावच्छवस्तिष्ठति तावदाशौचं शिष्टाचारात् ।।
शवस्पर्शे तु "शवस्पृशो ग्रामं न प्रविशेयुरानक्षत्रदर्शनाद्रात्रौ चेदादित्यस्य” इति हारीतोक्तेः सज्योतिराशौचम् । अत्र शवस्पृश: शववाहका ग्राह्याः । स्पर्शमात्रे तु
शवं तत्पृष्टिनं चैव स्पृष्टवा स्नानेन शुद्धयति । इति देवलेन स्नानमात्रोक्तेः । 'दत्तकस्य जनकमरणे' जनकस्य वा दत्तकमरणे नाशौचम् ।
गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा । इति मानववचने 'गोत्ररिक्थस्वधापदैर्जनकदत्तकयोः परस्परसम्बन्धप्रयुक्तकार्यमात्रस्य "जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इत्यत्रावस्थाविशेषस्येव लक्षणाल्लक्षितकार्यमात्रनिवृत्त्या आशौचस्यापि निवृत्तिसिद्धेः' इति मयूखे नीलकण्ठभट्टाः ।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169