Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 149
________________ आशौचकालनिर्णयः । १३५ इति विष्णूक्ते: “देशान्तरमृतम्" इति वचनं वर्षान्ते एव स्नानविधायकम्' इति माधवः । वस्तुतस्तु "देशान्तरमृतं श्रुत्वा" इति पराशरवचनं सोदकानां त्रिरात्रमध्येऽपि देशान्तरस्थसोदकमरणश्रवणे स्नानमात्रविधायकम् । “गर्भस्रावे च गोत्रिणः” इति सामान्यश्रवणात् । अतः सपिण्डमरणे देशान्तरे आशौचं भवत्येवेति युक्तम् । देशान्तरलक्षणं तु महानद्यन्तरं यत्र गिरिवी व्यवधायकः । वाचो यत्र बिभिद्यन्ते तद्देशान्तरमुच्यते । देशान्तरं वदन्त्येके षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्यन्ये त्रिंशदन्ये तथैव च ।। इति । एतत्सर्वं मातापित्रादिभिन्नपरम् । ____ मातापितृमरणे तु दूरदेशेऽपि संवत्सरोर्ध्वमपि मरणश्रवणे पूर्णमाशौचं कुर्यात् । स्त्रीपुंसयो: परस्परं सपत्नीषु चैवम् । “पितरौ चेन्मृतौ स्यातोम्" इति पूर्वोक्तपैठीनसिवचनात् । देशान्तरमृतौ भर्तुर्दशाहाच बहिः श्रुतम् । संपूर्ण सूतकं भार्या कुर्यादपि पतिस्तथा ॥ इति धर्मार्णवे पैठीनसिवचनात् । मातापित्रोर्यथाऽऽशौचं दशाहं क्रियते सुतैः । । अनेकेऽन्देऽपि दम्पत्योस्तथैव स्यात् परस्परम् ।। सपत्न्योरपि आशौचं भवेदेवं विनिश्चितम् । इति संस्कारप्रकाशादौ वचनाच्च । सपत्नमातुर्मरणे तु पितृपत्न्यामपेतायां मातृवर्ज द्विजोत्तमः । संवत्सरे व्यतीतेऽपि त्रिरात्रमशुचिर्भवेत् ।। इति दशोक्तेर्व्यवस्था । पितु: पल्यामपेतायामौरसे तनये तथा ।

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169