Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 156
________________ १४२ अन्त्यकर्मदीपकोत्तराधे चूडस्य पूर्णत्रिवर्षस्य च मरणे दाहे सति यह: इति आङ्गिरसवचनार्थः । तदभावे “दन्तजातेऽप्यकृमचूडे" इति पूर्वोक्तविष्णू तेरे काहः । कृतचूडस्य सदा त्र्यहः, दाहश्च नियतः । निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते । इति मनूक्तेः । त्रिवर्षोर्ध्वं कृतचूडेऽकृतचूडे वा प्रागुपनयनात् व्यहः । " यद्यप्यकृतचूड" इति पूर्वोक्ताङ्गिरसवचनात् । "अविशेषेण” इति वक्ष्यमाणवचनाच्च । एतत्सर्वं प्रागुक्तं सपिण्डानाम् । मातापित्रोस्तु पुत्रस्य कन्यायाश्च दशाहोत्तरं मरणे सर्वत्र त्रिरात्रम् | 'बालानामजातदन्तानां त्रिरात्रेण शुद्धिः" इति कश्यपोक्तेः । बैजिकाभिसम्बन्धादनुरुन्ध्यादघं व्यहम् | इति मनूक्तेश्च । अन्यसपिण्डानां कन्यासु चौलात्प्राङ्मृतौ स्नानम् | अचूडायां तु कन्यायां सद्यः शौचं विधीयते । इत्यापस्तम्बोक्तेः । चौलोत्तरं त्रिवर्षो वा वाग्दानात्पूर्वं तास्वेकाहः | विशेषेण वर्णानामर्वाक् संस्कारकर्मणः । त्रिरात्रात्तु भवेच्छुद्धिः कन्यास्वा विधीयते || इत्यङ्गिरसा कन्यासु त्रिरात्रविषयेऽहोरात्रविधानात् । अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । इति याज्ञवल्कीयाच्च । द्विजानामित्युपेक्ष्य वर्णानामित्युक्तेः शूद्रस्योपनयनस्थानीयविवाहात्पूर्वं त्रिरात्रम् | 'विवाहसंस्कारस्य षोडशाब्दका लोपलक्षणत्वात् षोडशब्दात्पूर्व विवा हेऽपि षोडशाब्दमध्ये त्रिरात्रम्' इत्यपरार्काद्याः । 'कालोपलक्षणत्वाभावात् षोडशाब्दात्प्राक् विवाहे तन्मध्येऽपि दशाह

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169