Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 148
________________ १३४ अन्त्यकर्मदीपकोत्तरार्धे विगतं तु विदेशस्थं शृणुयाद् यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ इति मनूक्तर्देशान्तरे दशाहमध्ये आशौचश्रवणे शेषदिनैरेव शुद्धिः, नतु श्रवणकालमारभ्य दशाहमाशौचं कार्यम् । "प्रोषिते कालशेष: स्यात्" इति याज्ञवल्क्योक्तेश्च । 'एतञ्च पुत्रातिरिक्तविषयम् । पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तदिनमारभ्य दशाहं सूतकी भवेत् ॥ इत्यस्य सर्वापवादत्वात्' इति केचिदाहुः । उत्पन्नस्य ज्ञातस्य मरणस्यैव निमित्तत्वात् , “पितरौ चेन्मृतौ स्याताम्" इत्यस्य निर्दशाशौचप्रकरणपाठाच दशाहमध्ये पुत्रस्यापि मरणदिनमारभ्यवाशौचप्रवृत्तिः, नतु श्रवणदिनमारभ्य । अनग्निमत उत्क्रान्तेराशौचादि द्विजातिषु । दाहादग्निमतो विद्याद्विदेशस्थे मृते सति ॥ इति पैठीनसिस्मृतेरुत्क्रान्तिदिनमारभ्यैवाऽऽशौचप्रवृत्तेरुक्तत्वात् । दशाहाभ्यन्तरे शेषैर्दिवसः शुद्धिरिष्यते । पुत्राणां चैव सर्वेषां सपिण्डानां समानतः ।। इति शौनकोक्तश्च । दशाहादूर्ध्व दशाहाशौचे ज्ञाते तु मासत्रये त्रिरात्रं स्यात्षण्मासे पक्षिणी तथा । अहस्तु नवमादगूिज़ स्नानेन शुद्धयति ॥ इति वचनाद् व्यवस्था ज्ञेया । 'देशान्तरे तु दशाहो दशाहाशौचे ज्ञाते देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ । मृते स्नानेन शुद्धयन्ति गर्भस्रावे च गोत्रिणः ॥ इति पराशरोक्तेः स्नानमात्रम्” इति विज्ञानेश्वरः । अर्वाक् त्रिपक्षात् त्रिनिशं षण्मासाच दिवानिशम् । अहः संवत्सरादुर्वाग्देशान्तरमृतेष्वपि ॥ .

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169