________________
१३४ अन्त्यकर्मदीपकोत्तरार्धे
विगतं तु विदेशस्थं शृणुयाद् यो ह्यनिर्दशम् ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ इति मनूक्तर्देशान्तरे दशाहमध्ये आशौचश्रवणे शेषदिनैरेव शुद्धिः, नतु श्रवणकालमारभ्य दशाहमाशौचं कार्यम् ।
"प्रोषिते कालशेष: स्यात्" इति याज्ञवल्क्योक्तेश्च । 'एतञ्च पुत्रातिरिक्तविषयम् ।
पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः ।
श्रुत्वा तदिनमारभ्य दशाहं सूतकी भवेत् ॥ इत्यस्य सर्वापवादत्वात्' इति केचिदाहुः ।
उत्पन्नस्य ज्ञातस्य मरणस्यैव निमित्तत्वात् , “पितरौ चेन्मृतौ स्याताम्" इत्यस्य निर्दशाशौचप्रकरणपाठाच दशाहमध्ये पुत्रस्यापि मरणदिनमारभ्यवाशौचप्रवृत्तिः, नतु श्रवणदिनमारभ्य ।
अनग्निमत उत्क्रान्तेराशौचादि द्विजातिषु ।
दाहादग्निमतो विद्याद्विदेशस्थे मृते सति ॥ इति पैठीनसिस्मृतेरुत्क्रान्तिदिनमारभ्यैवाऽऽशौचप्रवृत्तेरुक्तत्वात् ।
दशाहाभ्यन्तरे शेषैर्दिवसः शुद्धिरिष्यते ।
पुत्राणां चैव सर्वेषां सपिण्डानां समानतः ।। इति शौनकोक्तश्च । दशाहादूर्ध्व दशाहाशौचे ज्ञाते तु
मासत्रये त्रिरात्रं स्यात्षण्मासे पक्षिणी तथा ।
अहस्तु नवमादगूिज़ स्नानेन शुद्धयति ॥ इति वचनाद् व्यवस्था ज्ञेया । 'देशान्तरे तु दशाहो दशाहाशौचे ज्ञाते
देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ ।
मृते स्नानेन शुद्धयन्ति गर्भस्रावे च गोत्रिणः ॥ इति पराशरोक्तेः स्नानमात्रम्” इति विज्ञानेश्वरः ।
अर्वाक् त्रिपक्षात् त्रिनिशं षण्मासाच दिवानिशम् । अहः संवत्सरादुर्वाग्देशान्तरमृतेष्वपि ॥ .