Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 138
________________ १२४ अन्त्यकदोर्मपकोत्तरार्धे अग्निं वायुं सूर्य प्रजापतिं व्यस्तसमस्ताभिर्व्याहृतिभिरेकैकया पायसाहुत्या, विष्णुं "विष्णोर्नुकम्" इति चतसृभिः प्रतिकण्डिकमेकैकया पायसाहुत्या, पुरुषं पुरुषसूक्तेन प्रत्यूचमेकैकया पायसाहुत्या, - शुक्लपक्षे सिद्धिं गतश्चेत् केशवादिद्वादशदेवता नाममन्त्रेणैकैकया पायसाहुत्या, कृष्णपक्षे सिद्धिं गतश्चेत् संकर्षणादिद्वादशदेवता एकैकया पायसाहुत्या, शेषेणाग्निं स्विष्टकृतं, महाव्याहृतिदेवताः सर्वप्रायश्चित्तदेवताः प्रजापतिं चाज्येनाहं यक्ष्ये इति । ततो ब्रह्माणं वृत्वा क्षीरं जलं च प्रणीतापात्रे मध्ये सेतुबन्धेन मूलेऽग्रे च क्रमेण निधाय परिस्तरणादि आज्याधिश्रयणान्तं कर्म कृत्वा अधिश्रयणपूर्वकं चरुं श्रपयित्वा पर्यग्निकरणादि पर्युक्षणान्तं कर्म कृत्वाऽग्निप्रणीतयोर्मध्ये प्रोक्षणीपात्रं निधायाग्निं संपूज्याघारावाज्यभागौ च हुत्वाऽग्नेः पुरतः शालिग्रामे विष्णुं पुरुषसूक्तेन 'ॐ नमो नारायणाय' इति सहितयैकैकयर्चा षोडशोपचारैरभ्यर्च्य ॐ भूः स्वाहा-इदमग्नये० । ॐ भुवः स्वाहा-इदं वायवे० । ॐ स्वः स्वाहा-इद५ सूर्याय० । ॐ भूर्भुवःस्वः स्वाहा-इदं प्रजापतये० इति पायसेन हुत्वा____ॐ विष्णोर्नु के वीर्याणि प्रवोचं यः पार्थिवानि विममे रजा सि । यो अस्कभायदुत्तर सधस्थं विचक्रमाणस्नेधोरुगायः॥ विष्णवे त्वा-स्वाहा १ ( य० सं० ५-१८) इदं विष्णवे । ॐ दिवो वा विष्ण उत वा पृथिव्या महो वा विष्ण उरोरन्तरिक्षात् । उभा हि हस्ता वयुना पृणस्वाप्रयच्छ दक्षिणादोत सव्यात् ॥ विष्णवे त्वा-स्वाहा २ ( य० सं० ५-१६)। इदं विष्णवे० । ॐ प्रतद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा-स्वाहा-३ ( य० सं० ५-२०) । इदं विष्णवे । - ॐ विष्णो रराटमसि विष्णोः श्नप्त्रे स्थो विष्णोः स्यूरसि विष्णोधुवोऽसि । वैष्णवमसि विष्णवे त्वा स्वाहा-४ (य० सं०.५. २१) इदं विष्णवे० ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169