Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 134
________________ अन्त्यकर्मदीपकोत्तरार्धे गयायां पिण्डदानेन स्वयमेको जनार्दनः । यं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ॥ पद्मकोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः | यत्र यत्र स्मरिष्यामि पितॄणां दचमक्षयम् ॥ शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे । उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥ पितुः शतगुणं पुण्यं सहस्रं मातुरुच्यते । भगिन्यां शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥ इति । हस्ते जलं गृहीत्वा अद्य दिनेऽपरमपि आमं पक्कं हिरण्यादिकमुदयमारभ्यास्तपर्यन्तं यद्दत्तं यच्च दास्ये तत्स्वर्गद्वारेऽमृतीभूय पितृभ्यस्तिष्ठतु इति विसृजेत् । सव्येन देवताभ्य इति त्रिर्जप: । सप्तव्याधा इति पठित्वा 'पार्वणश्राद्धं विसर्जये' इत्युक्त्वा एतच्छ्राद्धं विधिहीनं देशहीनं कालहीनं श्रद्धाहीनं द्रव्यहीनं यत्कृतं तत्सुकृतमस्तु यन्न कृतं तत् श्रीविष्णोः प्रसादाद् ब्राह्मणवचनात्सर्वं परिपूर्णमस्तु इति पूर्णतां प्रार्थयेत् । अस्तु परिपूर्णमिति विप्राः । स्वस्ति भवन्तो ब्रुवन्तु इति दक्षिणास्वीकारं कारयेत् । ॐ स्वस्ति प्र० । भोजनपात्राणि चालयित्वा संचरमभ्युदय विसर्जयेत् । तत्र पूर्वं सव्येन पितृब्राह्मणं कुशाग्रेण स्पृशन् - ॐ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानव इन्द्र प्राशुवा सचा || वाजेवाजेऽवत व्याजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ इति पितॄन् विसृज्य पश्चाद्देवांश्च अनेनैव विसृज्य कर्मपात्रं हस्ते गृहीत्वा - १२० ॐ श्रामा व्वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे । आमागन्तां पितरामातरा चामा सोमोअमृतत्वेन गम्यात् ॥ इति प्रदक्षिणीकृत्य जलधारां दत्त्वा कर्मपात्रं विप्रापादाभ्यां निनयेत् । यान्तु पितृगणाः सर्वे यतः स्थानादुपागताः । सर्वे ते हृष्टमनसः सर्वान् कामान् ददन्तु मे ॥ ये लोका दानशीलानां ये लोकाः पुण्यकर्मणाम् ।

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169