Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 132
________________ ११८ अन्त्यकर्मदीपकोत्तरार्धे पांमध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । भवन्तु मे ॥ ब्राह्मणस्य करे न्यस्ता: शिवा आपो इति जलं दद्यात् । सन्तु शिवा आपः प्र० । सौमनस्यमस्तु -- लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । लक्ष्मीर्वसति गोष्ठे च सौमनस्यं सदाऽस्तु मे ॥ इति पुष्पं दद्यात् । अस्तु सौमनस्यम् प्र० । अक्षतं चारिष्टं चास्तुतं चास्तु मे नित्यं शान्तिदं पुष्टिदं तथा । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ इत्यक्षतान्दद्यात् । अस्त्वक्षतमरिष्टं च प्र० । कर्मपात्रोदकेन मूर्धा - भिषेक: । मम कुले दीर्घमायुरस्तु शान्तिरस्तु पुष्टिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु — यत्पापं रोगः शोको दुःखं दारिद्रयं तद् दूरे प्रतिहतमस्तु इति बहिः | अमृताभिषेकोऽस्तु इति शिरस्यभिषेकं कुर्यात् । ततोऽपसव्येन जलमोटकं ( शि० स० जलकुशं ) गृहीत्वा अद्येहामुकगोत्रस्य ब्रह्मीभूतास्मत्पितुर मुकशर्मणो वसुस्वरूपस्य ( आत्मन: ) पार्वणश्राद्धे इदमन्नोदकादि यद्दत्तं तदक्षय्यमस्तु इति पिण्डोपरि जलं ब्राह्मणहस्ते मोटकं दद्यात् । अस्त्वक्षय्यमिति प्रत्युक्तिः । एवं पितामहस्य रुद्र० । प्रपितामहस्य आदित्यस्व ० ( अन्तरात्मन: ० परमात्मन: ० ) । ततः सव्येनाशीर्ग्रहणम्अघोराः पितरः सन्तु २ । गोत्रं नो वर्धताम् २ | दातारोभिवर्धन्ताम् २ | वेदा वर्धन्ताम् २ | सन्ततिर्वर्धताम् २ | श्रद्धा च नो मा व्यगमत् । मागात् । बहुदेयं च नोऽस्तु अस्तु । अन्नं च नो बहु भवेत् भवतु | अतिथींश्च लभेमहि लभध्वम् । याचितारश्च नः सन्तु २ । मास्म याचिष्म कञ्चन मा याचध्वम् । एता एवाशिषः सत्याः सन्तु २ । अपसव्येन ( शि० स० ) न्युब्जपात्रोपरि स्थापितान् स्वधावाचनीयान् दर्भान् गृहीत्वा पिण्डपश्चिमतो दक्षिणाप्रान् निधाय तेष्वपो निषिचेत् । सव्येन 'भो ब्राह्मणा युष्मद्नुज्ञया स्वधां वाचयिष्ये' । वाच्यतामित्यनुज्ञातोऽपसव्येन ( शि० स० ) अद्येहामुकगोत्रेभ्यो ब्रह्मीभूतेभ्योऽस्मत्पितृभ्यो ऽमुकशर्मभ्यो

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169