Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 105
________________ सपिण्डोकरणश्राद्धप्रयोगः। ६१ ततः सतिलमोटकं गृहीत्वाऽपसव्येनैव अद्य दिने उदयमारभ्यातपर्यन्तमाम पक्कं हिरण्यादिकं यहत्तं यच्च दास्ये तत्स्वर्गद्वारेऽमृतीभूय पितृ यस्तिष्ठतु-इत्युक्त्वा जलमुत्सृजेत् । ततः सव्येन देवताभ्य इति त्रिजपः । सप्तव्याधा दशार्णेषु मृगा: कालञ्जरे गिरौ । चक्रवाका: शरद्वीपे हंसा: सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥ श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । मनसा स्वपितृन् ध्यात्वा सपिण्डीकरणश्राद्धं विसर्जये ॥ विसर्जय इति प्रति० । इदं श्राद्धं विधिहीनं देशहीनं कालहीनं भक्तिहीनं श्रद्धाहीनं यत्कृतं तत्सुकृतमस्तु यन्न कृतं तन्नारायणस्मरणापितृप्रसादाब्राह्मणवचनाच सर्वं परिपूर्णमस्तु इति पूर्णतां प्रार्थयेत् । अस्तु परिपूर्णमिति प्रति० । ततो भोजनपात्राणि चालयित्वा संचरमभ्युक्ष्य सव्येनैव अभिरम्यतामिति प्रेतब्राह्मणं विसर्जयेत्(१) । तत: प्रथमम् (१) वाजेवाजे इति प्रीतः पितृपूर्व विसर्जनम् । इति याज्ञवल्क्यस्मरणात् ( अ० १।२४७) अन्यकार्याणां देवपूर्ववेऽपि विसर्जनस्य पितृपूर्वत्वम् । प्रेतकार्यस्य च सर्वस्यैव पितृकार्यतः पूर्वभावित्वेन अन्ते तदीयब्राह्मणविसर्जनस्यापि पूर्वभावित्वं युक्तमेवेति बोध्यम् । सव्येनैव चैतद्भवति- . सूक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम् । आह्वानं स्वागतं चार्घ्य विना च परिवेषणम् ॥ विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विप्रप्रदक्षिणां चैव स्वस्तिवाचनकं विना ॥ पितृनुद्दिश्य कर्तव्यं प्राचीनावीतिना सदा । इति निर्णयसिन्धौ जमदग्निस्मरणात् । सूक्तस्तोत्रजपः भुञ्जानेषु विप्रेषु क्रियमाणः मधुव्वाता इत्यादिः । अय॑म् अर्घपूरणम् । न तु अर्घदानम् । तत्रापसव्योक्तेः। सौमनस्य-शिवा आपः सन्तु इत्यादिना ब्राह्मणहस्ते जलादिदानम् । आशिषां प्रार्थनम् अघोराः पितरः सन्तु इत्यादि । स्वस्तिवाचनकं स्वस्ति भवन्तो ब्रुवन्त्विति दक्षिणा. स्वीकारः । एतदतिरिक्त विशेषतः पितनुद्दिश्य क्रियमाणमपसव्येन कार्यम् । दिग्बन्धनादिकं तु साधारण्यात् सव्येनैवेति बोध्यम् ।

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169