Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 125
________________ यतेरेकादशाहै पार्वणश्राद्धप्रयोगः । (आत्मादिश्राद्धं ) समारभे । स० प्र० । नीवीबन्धनमपसव्येन | वामकट्यां तिलजलयुतं मोटकं बन्धयेत्-(शि० न बन्धयेत् ) "ॐ सोमस्य नीविरसि विष्णोः शर्मासि शर्म यजमानस्येन्द्रस्य योनिरसि सुसस्याः कृषीस्कृधि" इति मन्त्रेण । सव्येन दिग्बन्धनम् अग्निष्वात्ताः पितृगणाः प्राची रक्षन्तु मे दिशम् । तथा बर्हिषदः पान्तु यामी ये पितरः स्थिताः । प्रतीचीमाज्यपाः पान्तु उदीचीमपि सोमपा: । विदिशश्च गणा: सर्वे रक्षन्तूर्ध्वमधोऽपि वा ॥ रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ।। तिला रक्षन्तु दितिजान् (त् ) दर्भा रक्षन्तु राक्षसान् (त)। ... पङ्गिं वै श्रोत्रियो रक्षेदतिथि: सर्वरक्षकः ॥ इति । ततः सव्येनैव त्रिभिर्दभैः कर्मपात्राभिमन्त्रणम् ॐ यद्देवा देवहेडनं देवासश्चकमा वयम् । अग्निर्मा तस्मादेनसो विश्वान् मुश्चत्वहसः ॥ यदि दिवा यदि नक्तमेनासि चकमा वयम् । वायुर्मा तस्मादेनसो विश्वान् मुश्चत्व हसः ॥ यदि जाग्रद्यदि स्वप्नएनासि चकमा वयम् । सूर्यो मा तस्मादेनसो विश्वान् मुञ्चत्वहसः । एतैर्मन्त्रैर्जलमभिमन्त्रयेत् । तज्जलेन शूद्रादिदुष्टदृष्टिनिपातात्पाकादीनां पवित्रताऽस्तु इति पाकं प्रोक्ष्य सव्येनैव प्रतिज्ञासङ्कल्पं कुर्यात् । हस्ते कुशादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्य ब्रह्मी भूतस्यास्मपितुरमुकशर्मणः करिष्यमाणदर्शादिसर्वश्राद्धाधिकारसिद्धयर्थम् (ब्रह्मभूतस्य गुरोः सांवत्सरिकादिश्राद्धाधिकारसिद्धयर्थम् ) एकाद्शाहे आद्यपार्वणश्राद्धमपिण्डसहितं करिष्ये । इति सङ्कल्प्य ऋजुकुशान् गृहीत्वा अद्येहामुकगोत्रब्रह्मीभूतास्मत्पित्रादित्रयश्राद्धसम्बन्धिनां पुरूरवावसंज्ञकानां (आत्मादिश्राद्धसम्बन्धिनां साधुरुरुसंज्ञकानां ) विश्वेषां देवानामिदं कुशासनमस्तु । ॐ भूर्भुवः स्वः इदमासनम् आस्यताम् । आसे इति प्र० । अपसव्येन मोटकं गृहीत्वा अद्येहामुकगोत्राणां ब्रह्मीभूतास्मपितृपितामहप्रपितामहानाममुकशर्मणां · वसुरुद्रादित्यस्वरूपाणामिदं मोटकासनमस्तु (शि०

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169