________________
यतेरेकादशाहै पार्वणश्राद्धप्रयोगः । (आत्मादिश्राद्धं ) समारभे । स० प्र० । नीवीबन्धनमपसव्येन | वामकट्यां तिलजलयुतं मोटकं बन्धयेत्-(शि० न बन्धयेत् )
"ॐ सोमस्य नीविरसि विष्णोः शर्मासि शर्म यजमानस्येन्द्रस्य योनिरसि सुसस्याः कृषीस्कृधि" इति मन्त्रेण । सव्येन दिग्बन्धनम्
अग्निष्वात्ताः पितृगणाः प्राची रक्षन्तु मे दिशम् । तथा बर्हिषदः पान्तु यामी ये पितरः स्थिताः । प्रतीचीमाज्यपाः पान्तु उदीचीमपि सोमपा: । विदिशश्च गणा: सर्वे रक्षन्तूर्ध्वमधोऽपि वा ॥ रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ।।
तिला रक्षन्तु दितिजान् (त् ) दर्भा रक्षन्तु राक्षसान् (त)। ... पङ्गिं वै श्रोत्रियो रक्षेदतिथि: सर्वरक्षकः ॥ इति । ततः सव्येनैव त्रिभिर्दभैः कर्मपात्राभिमन्त्रणम्
ॐ यद्देवा देवहेडनं देवासश्चकमा वयम् । अग्निर्मा तस्मादेनसो विश्वान् मुश्चत्वहसः ॥ यदि दिवा यदि नक्तमेनासि चकमा वयम् । वायुर्मा तस्मादेनसो विश्वान् मुश्चत्व हसः ॥ यदि जाग्रद्यदि स्वप्नएनासि चकमा वयम् । सूर्यो मा तस्मादेनसो विश्वान् मुञ्चत्वहसः । एतैर्मन्त्रैर्जलमभिमन्त्रयेत् । तज्जलेन शूद्रादिदुष्टदृष्टिनिपातात्पाकादीनां पवित्रताऽस्तु इति पाकं प्रोक्ष्य सव्येनैव प्रतिज्ञासङ्कल्पं कुर्यात् । हस्ते कुशादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्य ब्रह्मी भूतस्यास्मपितुरमुकशर्मणः करिष्यमाणदर्शादिसर्वश्राद्धाधिकारसिद्धयर्थम् (ब्रह्मभूतस्य गुरोः सांवत्सरिकादिश्राद्धाधिकारसिद्धयर्थम् ) एकाद्शाहे आद्यपार्वणश्राद्धमपिण्डसहितं करिष्ये । इति सङ्कल्प्य ऋजुकुशान् गृहीत्वा अद्येहामुकगोत्रब्रह्मीभूतास्मत्पित्रादित्रयश्राद्धसम्बन्धिनां पुरूरवावसंज्ञकानां (आत्मादिश्राद्धसम्बन्धिनां साधुरुरुसंज्ञकानां ) विश्वेषां देवानामिदं कुशासनमस्तु । ॐ भूर्भुवः स्वः इदमासनम् आस्यताम् । आसे इति प्र० । अपसव्येन मोटकं गृहीत्वा अद्येहामुकगोत्राणां ब्रह्मीभूतास्मपितृपितामहप्रपितामहानाममुकशर्मणां · वसुरुद्रादित्यस्वरूपाणामिदं मोटकासनमस्तु (शि०