Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 123
________________ यतेरेकादशाहे पार्वणश्राद्धप्रयोगः । यत्फलं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे । तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशोधने || इति पादौ प्रक्षालयेत् । ततोऽपसव्येन ( शिष्यादिः सव्येनैव यवानेव गृहीत्वा ) तिलान् गृहीत्वा अमुकगोत्राणां ब्रह्मीभूत पितृपितामहप्रपितामहानाममुकशर्मणां वसुरुद्रादित्यस्वरूपाणाम् ( आत्मान्तरात्मपरमात्मनाम् ) एकादशाहकर्तव्ये पार्वणश्राद्धे भवान्मया निमन्त्रितः । नि० प्र० । पूर्ववन्नियमान् श्रावयित्वा सव्येन आगतं वः । सुस्वागतम् प्र० । अपसव्येन ( शिष्यादिः सव्येनैव ) चरणप्रक्षालनार्थं जलम् एतद्वः पाद्यमस्तु । यत्फलङ्कपिलादाने० इति पादौ प्रक्षालयेत् । ततः सव्येन पादार्घ सम्पाद्य हस्ते गृहीत्वा अमुकगोत्रब्रह्मीभूत पित्रादित्रयश्राद्धसम्बन्धिनः पुरूरवार्द्रवसंज्ञकाः ( आत्मादित्रयश्राद्धसम्बन्धिन: साधुरुरुसंज्ञकाः ) विश्वेदेवा एष पादार्थो वोsस्तु इति पादयोरर्घ्यं निवेद्य अपसव्येन ( शिष्यादि: सव्येनैव ) पित्रादिपादार्घ सम्पाद्य हस्ते गृहीत्वा अह अमुकगोत्रा : ब्रह्मीभूतास्मत्पितृपितामहप्रपितामहा अमुकशर्माणो वसुरु ० ( आत्मान्तरात्म परमात्मानः ) एष पादार्थो वोऽस्तु इति पादयोरर्थं निवेदयेत् । ततः सव्येन विश्वेषां देवानां " नमोऽस्त्वनन्ताय" इति पादपूजनं कुर्यात् । ततः अपसव्येन— १०६ ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन् पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् || शिष्यादिः सव्येनैव ) । इत्यनेन पितृब्राह्मणपादपूजनं ( आत्मादिब्राह्मणपूजनम् ) कुर्यात् । ततः सव्येन स्वयमाचम्य वैश्वदेविकब्राह्मणं श्राद्धदेशे प्राङ्मुखमुपवेश्य आचाम्यापसव्येन ब्रह्मीभूत पित्रादिब्राह्मणमुत्तराभिमुखमुपवेश्याचामयेत् । ( शि० आत्मादिना० सव्येनैव ) ततः सव्येन कर्मपात्रस्थापनम् । वामभागे ॐ " भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य -

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169