Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 115
________________ अधिककृष्णे मृतस्याब्दिकादिश्राद्धकालनिर्णयः । १०१ सिकं कार्यम् | अयमेव क्रमः अधिकमासे मृतस्य एकादशाहे अपकृष्य अनुष्ठीयमानानां षोडशश्राद्धानाम् | अत्रे बोध्यम् । अधिककृष्णे मृतस्य सांवत्सरिकश्राद्धम् श्रमान्तमानेन परिगृहीतमासीय कृष्णपक्षे कार्यम् । न तु पौर्णमास्यन्तमानेन परिगृहीतमासीकृष्णपक्षे । यथा श्रावणाधिककृष्णपक्षे मृतस्य सांवत्सरिक श्रमान्तमानेन परिगृहीतश्रावणमासीयकृष्णपक्षे ( अर्थात् पौर्णमास्यन्तमानेन परिगृहीतभाद्रकृष्णपक्षे ) कार्यम् । न तु पौर्णमास्यन्तमानेन परिगृहीतश्रावणकृष्णपक्षे | अधिकमासस्य अमान्तत्वनियमेन एतत्कृष्णपक्षस्य पौर्णमास्युत्तरकालिकत्वेन तन्मासीय पौर्णमास्युत्तरकाले एव तदनुष्ठानस्य कर्तुमुचितत्वात् । यथा धाशुक्ले मृतस्य प्रथममासिकानुष्ठानम् अधिके शुद्धे च क्रमेण आवृत्या भवति तथैव श्रावणाधिककृष्णे मृतस्याऽपि अधिके शुद्धे च क्रमेण प्रथममासिकं भवितुमर्हति । तत्र प्रथमम् अधिकमास सम्बन्धि भवितुमर्हति । तस्य षष्टया तु दिवसैर्मासः कथितो बादरायणैः । पूर्वार्धस्तु मलो ज्ञेयः उत्तरार्धः शुभः स्मृतः ॥ इत्युक्तरीत्या अधिकस्य पूर्वार्धरूपत्वात् । उत्तरार्धस्य च अनेनैव तन्मासत्वबोधनात् तस्य च त्रिंशद्दिनरूपत्वात् शुद्धमासत्वेन शुद्धमासीयप्रथममासिकानुष्ठानं तन्मासीयकृष्णपक्षे एव अनुष्ठातुमुचितम् इति वृत्त्या प्रथममासिकानुष्ठानम् अमान्तमानेन परिगृहीतश्रावणकृष्णपक्षे एव श्रपतति इति द्वितीयादिमासिकान्यपि अनेनैव क्रमेण भवेयुः इति द्वादशमासिकम् आषाढपौर्णमास्युत्तरकृष्णपक्षे आपतेत् इति साँवत्सरिकं श्रावणपौर्णमास्युत्तर कृष्णपक्षे एव फलति । श्रयमेव च मुख्यया वृत्त्या श्रावणकृष्णपक्षः । प्रतिवर्षम् अस्मिन्नेव पते श्रावणाधिककृष्णे मृतस्य साँवत्सरिकं कार्यम् । उल्लेखश्च श्रावणस्यैव कार्यः । तुल्यन्यायात् श्रावणाधिककृष्णे जातस्य जन्मतिथ्युत्सवोऽपि श्रावण पौर्णमास्युत्तर कृष्णपक्षे एव कार्यः । अयं च सिद्धान्तः वाचस्पतिमिश्रकृते द्वैतनिनरहरिमिश्रकृते द्वैतनिर्णये कृष्णभट्टकृतायां निर्णयसिन्धुटीकायां च पष्टः । चैत्राधिमासनिर्णये विनायकशास्त्र्यादिभिश्व अङ्गीकृतः । अतो नात्र संशयितव्यं विन्ध्योत्तरवासिभिः इत्यलम् | कर्मदीपकस्य पूर्वार्धं समाप्तम् । -

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169