________________
अधिककृष्णे मृतस्याब्दिकादिश्राद्धकालनिर्णयः । १०१
सिकं कार्यम् | अयमेव क्रमः अधिकमासे मृतस्य एकादशाहे अपकृष्य अनुष्ठीयमानानां षोडशश्राद्धानाम् |
अत्रे बोध्यम् । अधिककृष्णे मृतस्य सांवत्सरिकश्राद्धम् श्रमान्तमानेन परिगृहीतमासीय कृष्णपक्षे कार्यम् । न तु पौर्णमास्यन्तमानेन परिगृहीतमासीकृष्णपक्षे । यथा श्रावणाधिककृष्णपक्षे मृतस्य सांवत्सरिक श्रमान्तमानेन परिगृहीतश्रावणमासीयकृष्णपक्षे ( अर्थात् पौर्णमास्यन्तमानेन परिगृहीतभाद्रकृष्णपक्षे ) कार्यम् । न तु पौर्णमास्यन्तमानेन परिगृहीतश्रावणकृष्णपक्षे | अधिकमासस्य अमान्तत्वनियमेन एतत्कृष्णपक्षस्य पौर्णमास्युत्तरकालिकत्वेन तन्मासीय पौर्णमास्युत्तरकाले एव तदनुष्ठानस्य कर्तुमुचितत्वात् ।
यथा धाशुक्ले मृतस्य प्रथममासिकानुष्ठानम् अधिके शुद्धे च क्रमेण आवृत्या भवति तथैव श्रावणाधिककृष्णे मृतस्याऽपि अधिके शुद्धे च क्रमेण प्रथममासिकं भवितुमर्हति । तत्र प्रथमम् अधिकमास सम्बन्धि भवितुमर्हति । तस्य
षष्टया तु दिवसैर्मासः कथितो बादरायणैः । पूर्वार्धस्तु मलो ज्ञेयः उत्तरार्धः शुभः स्मृतः ॥
इत्युक्तरीत्या अधिकस्य पूर्वार्धरूपत्वात् । उत्तरार्धस्य च अनेनैव तन्मासत्वबोधनात् तस्य च त्रिंशद्दिनरूपत्वात् शुद्धमासत्वेन शुद्धमासीयप्रथममासिकानुष्ठानं तन्मासीयकृष्णपक्षे एव अनुष्ठातुमुचितम् इति वृत्त्या प्रथममासिकानुष्ठानम् अमान्तमानेन परिगृहीतश्रावणकृष्णपक्षे एव श्रपतति इति द्वितीयादिमासिकान्यपि अनेनैव क्रमेण भवेयुः इति द्वादशमासिकम् आषाढपौर्णमास्युत्तरकृष्णपक्षे आपतेत् इति साँवत्सरिकं श्रावणपौर्णमास्युत्तर कृष्णपक्षे एव फलति । श्रयमेव च मुख्यया वृत्त्या श्रावणकृष्णपक्षः । प्रतिवर्षम् अस्मिन्नेव पते श्रावणाधिककृष्णे मृतस्य साँवत्सरिकं कार्यम् । उल्लेखश्च श्रावणस्यैव कार्यः ।
तुल्यन्यायात् श्रावणाधिककृष्णे जातस्य जन्मतिथ्युत्सवोऽपि श्रावण पौर्णमास्युत्तर कृष्णपक्षे एव कार्यः । अयं च सिद्धान्तः वाचस्पतिमिश्रकृते द्वैतनिनरहरिमिश्रकृते द्वैतनिर्णये कृष्णभट्टकृतायां निर्णयसिन्धुटीकायां च पष्टः । चैत्राधिमासनिर्णये विनायकशास्त्र्यादिभिश्व अङ्गीकृतः । अतो नात्र संशयितव्यं विन्ध्योत्तरवासिभिः इत्यलम् |
कर्मदीपकस्य पूर्वार्धं समाप्तम् ।
-