________________
१००
अन्त्यकर्मदीपके
दिकं गृहीत्वा अहामुकगोत्रस्यामुकशर्मणोऽस्मत्पित्रादेः कृतस्योदकुम्भश्राद्धकर्मणः साङ्गतासिद्धयर्थमिमां दक्षिणां ब्राह्मणाय दास्ये इति सङ्कल्प्य स्वस्तीति दक्षिणास्वीकारं कारयेत् । ततो देवताभ्य इति त्रिर्जपं विधाय अपसव्येन सप्तव्याधेति पठित्वा “उत्तिष्ठब्रह्मणस्पते" इति विसर्जनं कुर्यात् । इदं श्राद्धं मया विधिहीनं कालहीनं श्रद्धाहीनं यत्कृतं तत्सुकृतमस्तु यन्न कृतं तत् श्रीविष्णोः प्रसादात् सर्वं परिपूर्णमस्तु । अस्तु परिपूर्णम् । पाणिना दीपं निर्वाप्याचम्य यस्य स्मृत्येत्यादि पठेत् ।
एतावत्करणासम्भवे तु आचम्य हस्ते जलादिकं गृहीत्वा देशकाल - कीर्तनान्ते ममः पित्रादेः प्रात्यहिकक्षुत्पिपासोपशमनार्थं सोदकुम्भसिद्धान्नेन ब्राह्मणं तर्पयिष्ये । भोजनकर्मणः साङ्गतासिद्धयै इमां दक्षिणां ब्राह्मणाय दास्ये इति सङ्कल्पनम् । आमान्नेन करणपक्षे इदं सोदकुम्भमामानं सदक्षिणं ब्राह्मणाय दास्ये इत्यूहनीयम् । अन्यत्सर्वं समानम् ।
इत्युदकुम्भश्राद्धप्रयोगः ।
नैव विधिना प्रतिमासं मृततिथौ मासिकश्राद्धं कार्यम् । सपिएडीकरणोत्तरं क्रियमाणानि मासिकानि अनुमासिकानीत्युच्यन्ते । एकादशाहे अपकृष्य क्रियमाणानि मासिकानि अनुगतानि इति व्युत्पत्तेः । प्रथममासिकस्य तु एकादशाह एव काल: । 'आद्यमेकादशे कार्यम्' इत्युक्तेः । द्वितीयमासाद्यतिथिस्तु द्वितीयमासिककालः | 'मासादौ मासिकं कार्यम्' इत्युक्तेः । अतस्तत्र द्वितीयमासिकश्राद्धं करिष्ये इति सङ्कल्प एवोचितो नतु प्रथममासिकश्राद्धमिति । अनुमासिकानि तु द्वितीयमासादिसम्बन्धीनि एकादशैव भवन्ति । अधिमासे मृतस्य तु शुद्धमासीयाद्यतिथिलाभात् प्रथममनुमासिकमपि भवत्येद्वादश भवन्ति ।
नेपालवासिभिः कौर्माचलैः सपिण्डीकरणोत्तरम् ऊनमासिकादीनां चतुर्णा श्राद्धानामपि आचरणात् तैः एकेन द्वाभ्यां त्रिभिर्वा दिनैः ऊने त्रिभागमासोने
दिने नन्दा - चतुर्दश्यमा तिथीभृंगुवारं त्रिपुष्कर योगं च वर्जयित्वा द्वादशाहे एव वा ऊनमासिकं कार्यम् । त्रैपक्षिकं पक्षत्रयेऽतीते मृततिथौ कार्यम् । ऊनत्राण्मासिकं सप्तममासिकश्राद्धात् पूर्वदिने कार्यम् । ऊनाब्दिकम् अब्दिकश्राछात् पूर्वदिने कार्यम् ।
अधिमासे मृतस्य सपिण्डीकरणोत्तरं पूर्वोक्तशुद्धदिने ऊनमासिकं स्वा शुद्धमासीयमृत तिथौ आवृत्त्या प्रथममासिकं कृत्वा पक्षत्रयेऽतीते नतिथौ पक्षिकं कृत्वा षष्टिदिनात्मके मासे अतीते मृततिथौ द्वितीयमा
'