Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 247
________________ २४४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०५ शतेन त्रयो नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चात् चत्वारि मुहूर्त्तशतान्यष्टोत्तराणि मुहूर्त्तगतानां चद्वाषष्टिभागानां पञ्चोत्तरं शमेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागाः तत एतेभ्यः स्त्रभि शतैर्नवनवत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चान्नव मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानामशीति एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागाः द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्त्तो लब्धः स मुहूर्त्तराशौ प्रक्षिप्यते जाता दश मुहूर्त्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागा अष्टादश तत आगतं पुष्यस्य एकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रशति सप्तषष्टिभागेषु शेपेषु तृतीया माघमासभाविन्यावृत्ति प्रवर्त्तते । सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं । चतुर्थमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह - ‘ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता मूलेण' मित्यादि, ता इति प्राग्वत् मूलेन युक्तश्चन्द्रः चतुर्थी हेमन्तीमादृत्ति प्रवर्त्तयति, तदानीं च मूलस्य-मूलनक्षत्रस्य षट् मुहूर्ता एकस्य च मुहूर्त्तस्याटापञ्चाशत् द्वाषष्टिभागा एकं च द्वाषटिभां सप्तषष्टिधा छित्वा तस्य सत्का विंशतिश्चूर्णिका बागाः शेषाः, तथाहि - चतुर्थी माघमासभाविन्यावृत्ति पूर्वप्रदर्शितक्रमापेक्षया अष्टमी तस्याः स्थानेऽटको ध्रियते स रूपोनः कार्य इति जातः सप्तकस्तेन स प्राक्तनो ध्रुवराशि गुण्यते जातान्येकादशोत्तराणि चत्वारिंशन्मुहूर्त्तशतानि मुहूर्त्तगतानं च द्वाषष्टिभागानां द्वे शते द्विपञ्चाशदधिके एकस्य च द्वाषष्टिभागस्य द्वाचत्वारिंशत् सप्तषष्टिभागाः तत एतेभ्यः षट्सप्तत्यधिकैर्द्वात्रिंशच्छतैर्मुहूर्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां षन्नवत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यामष्टषष्ट्यधिकाभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः स्थितानि पश्चान्मुहूर्तानां सप्तशतानि पञ्चत्रिंशदधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्विपञ्चाशदधिकं शतं एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत्सप्तष्टिभागाः तत एतेभ्यो भूयः षड्भिः शतैः मुहूर्तानामेकोनसप्तयदिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि विशाखापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् षट्षष्टिर्मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानां सप्तविंशत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः, चतुर्विंशत्यधिकेन च द्वाषष्टिभागशतेन द्वौ मुहूर्ती लब्धौ तौ मुहूर्तराशौ प्रक्षिप्येते जाताः अष्टषष्टिर्मुहूर्त्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागास्त्रयः ततः पञ्चचत्वारिंशता मुहूर्तेरनुराधाज्येष्ठे शुद्धे शेषाः स्थितास्त्रयोविंशतिर्मुहूर्त्ताः तत आगतं मूलस्य षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्याष्टापञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य विंशती सप्तषष्टिभागेषु शेषेषु चतुर्थी माघमासभाविन्यावृत्ति प्रवर्त्तते सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं पञ्चममाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह 'ता एएसि ण'मित्यादि, सुगमं, भगवानाह - 'ता कत्तियाहिं' इत्यादि, ता इति पूर्ववत्, कृत्तिकाभिर्युक्तश्चन्द्रः पञ्चमीं हेमन्तीं (माघ) मासभाविनीमावृत्ति प्रवर्त्तयति, तदानीं च कृत्तिकानक्षत्र्य अष्टादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य षट्त्रिंशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का षट् चूर्णिकभागाः शेषाः, तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340