Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 269
________________ २६६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११३ तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनंजातःसतावानेवतस्य एकषष्ट्या भागहरणंलब्धानि परिपूर्णानि चतुर्दशमण्डलानि पञ्चदशस्य च मण्डलस्य त्रिंशदेकषष्टिभागाः 'ताउउमासेण मित्यादि सूर्यविषयंप्रश्नसूत्रंसुगम, भगवानाह-'तापन्नरसे'त्यादि, पञ्चदश परिपूर्णानिमण्डलानि चरति, तथाहि-यद्येकषष्ट्या कर्ममासैनवशतानिपञ्चदशोत्तराणिसूर्यमण्डलनां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे? अत्रा-न्त्येन राशिना मध्यराशिगुण्यतेजातः स तावानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि पञ्चदश मण्डलानि , 'ता उउमासेण'मित्यादिनक्षत्रविषयंप्रश्नसूत्रं सुगम, भगवानाह-'तापन्नरसे त्यादि, पञ्चदशमण्डलानि चरति, षोडशस्य च मण्डलस्य पञ्च द्वाविंशशतभागान्, तथाहि-यदि द्वाविंशेन कर्ममासशतेनाष्टादशशतानिपञ्चत्रिंशदधिकानिमण्डलानांनक्षत्रस्य लभ्यन्तेततएकेन कर्ममासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना द्वाविंशत्यधिकशतरूपेणभागहरणंलब्धानिपञ्चदशमण्डलानिषोडशस्यच पञ्च द्वाविंशशतभागाः सम्प्रति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयति 'ता आइच्चेण'मित्यादि, ता इति पूर्ववत्, आदित्येन मासेन चन्द्रः कति मण्डलानि चरति भगवानाह-चतुर्दश मण्डलानिचरतिपञ्चदशस्य चमण्डलस्य एकादश पञ्चभागान्, तथाहि-यदि षष्ट्या सूर्यमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानांचन्द्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किंलभामहे? अत्रान्त्येन राशिनामध्यराशेर्गुणनंजातःसतावानेव तस्यषष्ट्या भागहरणं लब्धानि चतुर्दशमण्डलानि शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् ततश्छेद्यच्छेदकराश्योश्चतुष्केनापवर्तनाजत उपरितनो राशिरेकादशरूपोऽधस्तनः पञ्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभगाः 'ता आइच्चेण मित्यादिसूर्यविषयंप्रश्नसूत्रंसुगम भगवानाह-पञ्चदशचतुर्भागाधिकानिमण्डलानि चरति, तथाहि-यदि षष्ट्या सूर्यासैनव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेनमासेन किंलभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः सतावानेव तस्य षष्ट्या भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च षष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः। ‘ता आइच्चेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम्, भगवानाह-'ता पन्नरसे'त्यादि, पञ्चदशमण्डलानि चतुर्भागाधिकानिपञ्चत्रिंशतंविंशत्यधिकशतभागानमण्डलस्यचरति, किमुक्तं भवति?-षोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतभागान् चरति, तथाहि-यदि विंशेन सूर्यमासशतेनाष्टादशशतानिपञ्चत्रिंशदधिकानि मण्डलानांनक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते? अत्रान्त्येन राशिना मध्य-राशिगुणितोजातस्तवानेवतस्य विंशत्यधिकेन शतेन भागहरणंलब्धानिपञ्चदशमण्डलानि पञ्चत्रिंशच्च विंशत्यधिकशतभागाः षोडशस्य अधुना अभिवर्द्धितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह 'ता अभिवड्दिएण'मित्यादि, ता इतिपूर्ववत्, अभिवर्द्धितेनमासेन चन्द्रः कतिमण्डलानि चरति ?, भगवानाह-'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चरति षोडशस्य च मण्डलस्य त्र्यशीतिचतुरशीत्यधिकशतभागान्, तथाहि-अत्रैवं त्रैराशिकं-इहयुगेऽभिवर्द्धितमासाः सप्तपञ्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340