Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 316
________________ प्राभृतं २०, प्राभृतप्राभृतं अनियट्टी एगजडी य होइ बिजडी बोद्धव्वो । वृ. विवर्त्तः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजी ८० द्विजटी ८१ । मू. (२०७) ३१३ कर करिए रायऽग्गल बोद्धव्वे पुष्फ भाव केतू य । अट्ठासीति गहा खलु नेयव्वा आनुपुवीए ॥ वृ. करः ८२ करिकः ८३ राजः ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ । प्राभृतं - २० समाप्तम् वृ. - सम्प्रति सकलशास्त्रपसंहारमाह पू. (२०८) इति एस पाहुडत्या अभव्वजणहिययदुल्लहा इणमो । उक्कित्तिता भगवता जोतिसरायस्स पन्नत्ती ॥ वृ. एवं - उक्तेन प्रकारेण अनन्तरमुद्दिष्टस्वरूपा प्रकटार्था- जिनवचनतत्ववेदिनामुत्तानार्था, इयं चेत्थं प्रकटार्थापि सती अभव्यजनानां हृदयेन - पारमार्थिकाभिप्रायेण दुर्लभा, भावार्थमधिकृत्या भव्जयनानां दुर्लभेत्यर्थः, अभव्यत्वादेव तेषां सम्यग्जिनवचनपरिणतेरभावात्, उत्कीर्त्तिता - कतिता भगवती - ज्ञानैश्वर्या देवता ज्योतिषराजस्य - सूर्यस्य प्रज्ञप्तिः । एषा च स्वयंगृहीता सती यस्मै न दातव्या तव्प्रतिपादनार्थमाह मू. (२०९) एस हितावि संता थद्धे गारवियमाणिपडिणीए । अवहुस्सुए न देया तव्विवरीते भवे देया ॥ वृ. ‘एसा गहियावि’इत्यादि गाथाद्वयं, एषा - सूर्यप्रज्ञप्ति स्वयं सम्यककरणेन गृहीतापि सती ‘“व्यत्ययोऽप्यासा’मिति वचनाच्चतुर्थ्यर्थे सप्तमी, ततोऽयमर्थ - थद्धे इति स्तब्धाय स्वभावत एव मानप्रकृत्या विनयभ्रंशकारणे । 'गारविय'त्ति ऋद्धयादि गौरवं सञ्जातमस्येति गौरवितस्तस्मै ऋद्धिरससातानामन्यतमेन गौरवेण गुरुतरायेति भावः, ऋद्धयादिमदोपेतो ह्यचिन्त्यचिन्ता- मणिकल्पमपीदं सूर्यप्रज्ञप्तिप्रकीर्णकमाचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति सा चावज्ञा दुरन्तनरकादिप्रपातहेतुरसस्तदुपकारायैव तस्मै दानप्रतिषेधः, इयं च भावना स्तब्धमान्यादिष्वपि भावनीया, तथा मानिने - जात्यादिमदोपेताय प्रत्यनीकाय - दूरभव्यतया अभव्य, तया वा सिद्धान्तवचननिकुट्टनपराय, तथा अल्पश्रुतायअवगाढस्तोकशास्त्रय, स हि जिनवचनेषु (अ)सम्यग्भावितत्वात् शब्दार्थपर्यालोचनायामक्षुण्णत्वाच्च यथावत्कथ्यमानमपि न सम्यगभिरोचयते इति न देया, किन्तु तद्विपरीताय दातव्या भवेत्, भवेदिति क्रियापदस्य सामर्थ्यलब्धावप्युपादानं दातव्यत्वावधारणार्थं, तद्विपरीताय दातव्यैय नादातव्या, अदाने शास्त्रव्यवच्छेदप्रसक्त्या तीर्थव्यवच्छेदप्रसक्तेः । मू. (२१०) सद्धाधितिउद्वाणुच्छाहकम्मबलविरियपुरिसकारेहिं । जो सिक्खिओवि संतो अभायण परिकहेज्जा हि ॥ वृ. एतदेव व्यक्तीकुर्वन्नाह - 'सद्धे' त्यादि, श्रद्धा-श्रवणं प्रति वाञ्छा धृति-विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनसोऽवष्टम्भः उत्थानं - श्रवणाय गुरुं प्रत्यभिमुखगमनं उत्साहःश्रवणविषये मनसः उत्कलिकाविशेषः यद्वशादिदानीमेव यदि मे पुण्यवशात् सामग्री सम्पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340