Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्राभृतं १८, प्राभृतप्राभृतं -
चन्द्रादीनां विमानानि तथाजगत्स्वाभाव्यान्निरालम्बानि वहन्त्यवतिष्ठन्ते, केलं ये आभियोगिका देवास्ते तताविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा देवानां निजस्फातिविशेषदर्शनार्थमात्मानं बहुमन्यमानाः प्रसादभृतः सततवहनशीलेषु विमानेष अधः स्थित्वा २ केचित सिंहरूपाणि केचिद् गजरूपाणि केचित् वृषभरूपामि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, तथाहि
यह केsपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म्म नायकसमक्षं प्रमुदितः करोति, तथाऽऽभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति तेषां च चन्द्रादिविमानवहनशीलानामाभियोगिकदेवानामिमे सङ्घयासङ्ग्रहिके जम्बूद्वीपप्रज्ञप्तिसत्के गाथे“सोलस देवसहस्सा वहंति चंदेसु चेव सूरेसु ।
अट्ठेव सहस्साइं एक्क कंमी गहविमाणे ॥
चत्तारि सहस्साइं नक्खत्तंमि य हवंति एक्के क्के ।
दो चेव सहस्साइं तारारूवेक्क मेक्केमि ।।
'ता एएसि ण 'मित्यादि, शीघ्रगतिविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, एतच्च पश्चादप्युक्तं परं भूयो विमानवहनप्रस्तावादुक्तमित्यदोषः, अन्यद्वा कारणं बहुश्रुतेभ्योऽवगन्तव्यं ।
मू. (१२५) ता जंबुद्दीवे णं दीवे तारारूवस्स य २ एस णं केवतिए अबाधाए अंतरे प० ? दुविहे अंतरे पं०, तं० - वाधातिमे य निव्वाधातिमे य ।
तत्थ णं जे से वाधातिमे से णं जहन्नेणं दोन्नि बावट्टे जोयणसते उक्कासेणं बारस जोयणसहस्साइं दोन्नि बाताले जोयणसते तारारूवस्स २ य अबाधाए अंतरे पन्नत्ते ।
तत्थ जे से निवाधातिमे से जहन्नेणं पंच धणुसताइं उक्कोसेणं अद्धजोयणं तारारूवस्स य २ अबाधाए अंतरे पं० ।
॥१॥
२७९
॥२॥
वृ. 'ता जंबुद्दीवे णं भंते! दीवे' इत्यादि ताराविमानान्तरविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता दुविहे' इत्यादि, द्विविधमन्तरं प्रज्ञप्तं, तद्यथा - व्याघातिमं निव्यार्घातिमं च ।
तत्र व्याहननं व्याघातः- पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं 'भावादिम' इति इमप्रत्ययः, निव्यार्घातिमं-व्याघातिमान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यत् व्याघातिमं तत् जघन्यतो द्वे योजनशते षट्षष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहि - निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्च योजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते, तेषां चोपरितनभागसम श्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षट्षष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340