Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 301
________________ २९८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९२ देवास्ते किं ऊॉपिपन्नाः-सौधर्मादिभ्योद्वादशेभ्यः कल्पेभ्यऊर्ध्वमुपपन्नाऊोपपन्नाः कल्पेषुसौधर्मादिषु उपपन्नाः कल्पोपपन्नाः विमानेषु-सामान्येषूपपन्ना विमानोपपन्नाः चारोमण्डलगत्या परिभ्रमणं तमपपन्ना-आश्रिताश्चारोपपन्नाः चारस्य-यथोक्तरूपस्य स्थिति अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः, गतौ रति-आसक्ति प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिप्रश्नयति-गतिसमापन्ना गतियुक्ताः एवं प्रश्ने कृते भगवानाह 'तातेणं देवा इत्यादि, ता इति पूर्ववत् ते चन्द्रादयो देवा नोोपपन्नाः नापिकल्पोपपन्नाः किन्तुविमानोपपन्नाः चारोपपन्नाः-चारसहितानोचारस्थितिकाः, तथा स्वभावतोऽपिगतिरितिकाः साक्षाद्गतियुक्ताश्च, ऊर्ध्वमुखीकृतकलम्बुकापुष्पसंस्थानसंस्थितैर्योजनसाहनिकैः-अनेकयोजनसहस्रप्रमाणैस्तापक्षेत्रैः साहसिकाभिः–अनेकसहस्रसङ्घयाभिर्बाह्याभि पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिः-विकुर्वितनानारूपधारिणीभि, महता रवेणेति योगः अहतानिअक्षतानि अनघानीत्यर्थः यानि नाट्यानि गीतानि वादित्राणि च याश्च तन्त्रयो-वीणा ये च तलताला-हस्तताला यानि त्रुटितानि-शेषाणि तूर्याणि ये च घना-घनाकारा ध्वनिसाधात् पटुप्रवादिता- निपुणपुरुषप्रवादिता मृदङ्गास्तेषां रवेण तथा स्वभावतो गतिरतकैर्वाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषु उत्कृष्टितः-उत्कर्षवशेन ये मुच्यन् सिंहनादा यश्च क्रयते बोलो, बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं-अतीव स्वच्छमितनिर्मलजाम्बूनदरत्नबहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षीकृत्य परियट्टति-पर्यटन्ति । पुनः प्रश्नयति-‘ता तेसिण'मित्यादि, ताइति पूर्ववत्, तेषां-ज्योतिष्काणां देवानां यदा इन्द्रश्च्यवते तदा ते देवा इदानीं-इन्द्रविरहकाले कथं प्रकुर्वन्ति?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत् शून्यमिन्द्रस्थानमुपसम्पद्य विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति, सातौ शुक्लस्थानादिकं पञ्चकुलवत्, कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्तीति चेदत आह-यावदन्यस्तकेन्द्रउपपन्नो भवति, ‘ता इंदठाणे णमित्यादि, ता इति पूरववत् इन्द्रस्थानं कियत्कालमुपपातेन विरहितं प्रज्ञप्तं ?, भगवानाह'ता'इत्यादि, जघन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् । ___ 'ता बहियाण मित्यादिप्रश्नसूत्रमिदं प्राग्वत् व्याख्येयं, भगवानाह-'तातेण मित्यादि, ता इति पूर्ववत् ते मनुष्यक्षेत्राबहिर्वर्त्तिनश्चन्द्रादयो देवा नोोपपन्ना नापि कल्पोपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः-चारयुक्ताः किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापनकाः, पक्वेष्टकासंस्थानसंस्थितैर्योजनशतसाहसिकैरात्तपक्षेत्रैः, यथा पक्वा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोअनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशत- सहस्राणि चतुरस्राणि चेति, तैरित्थंभूतैरातपक्षेत्रैः साहनिकाभिःअनेकसहनसङ्ख्याभिर्बाह्याभि पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महये'त्यादिपूर्ववत्, दिवि भवान् दिव्यान् भोगभोगान्– भोगार्हान् शब्दादीन् भोगान् भुञ्जाना विहरन्ति, कथंभूता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340