Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 303
________________ ३०० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९३ जोयणसहस्साई परिक्खेवेणं आहितेति वदेजा, ता देवे णं दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छातधेव, ता देवेणं दीवे असंखेजाचंदापभासेंसुवा ३जाव असंखेजाओ तारागणकोडिकोडीओ सोभेसु वा ३ एवं देवोदे समुद्दे नागे दीवे नागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदे समुद्दे सयंभुरमणे दीवे सयंमुरमणे समुद्दे सव्वे देवदीवसरिसा। वृ. ‘ता पुकखरवरण्ण'मित्यादि, ता इति पूर्ववत् पुष्करवरं णमिति वाक्यालङ्क्तरे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकारसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, पुष्करोदे च समुद्रे जलमतिस्वच्छं पथ्यं जात्यं तथ्यपरिणाम स्फटिकवर्णाभं प्रकृत्या उदकरसं, द्वौ च तत्र देवावाधिपत्यं परिपालयतस्तद्यथा-श्रीधरः श्रीप्रभश्च, तत्र श्रीधरः पूर्वार्धाधिपति श्रीप्रभोऽपरार्धाधिपति, विष्कम्भादिपरिमाणं च सुगमं । 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन वरुणवो द्वीपो वक्तव्यः, तदनन्तरं वरुणोदः समुद्रः ततः क्षीरवरो द्वीपः क्षीरोदः समुद्र इत्यादि, सूत्रपाठश्चैवम्-तापुक्खरोदण्णं समुदं वरुणवरे दीवेवट्टे वलयाकारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ' इत्यादि, वरुणद्वीपे च वरुणवरुणप्रभौ द्वौ देवौ स्वामिनौ नवरमाद्यः पूर्वार्द्धधिपतिपरतोऽपरार्द्धाधिपतिरेवं सर्वत्र भावनीयं, वरुणोदे समुद्रे परमसुजातमृद्वीकारसनिष्पन्नरसादपीष्टतरास्वादं तोयं वारुणिरप्रभौ च द्वौ तत्र देवौ, क्षीरवरे द्वीपे पण्डरसुप्रदन्तौ देवौ। क्षीरोदे समुद्रे जात्यपुण्ड्रेक्षुचारिणीनां गवां यत् क्षीरं तदन्याभ्यो गोभ्यो दीयते तासामपि क्षीरमन्याभ्यस्तासामप्यन्याभ्यः एवं चतुर्थस्थानपर्यवसितस्य क्षीरस्यप्रयत्नतोमन्दाग्निना कथितस्य जात्येनखण्डेन मत्स्यण्डिकया सम्मिश्रस्य याशो रसस्ततोऽपीष्टतरास्वाद् [तत्कालविकसितकर्मिकारपुष्पवर्णाभं] तोयं विमलविमलप्रभौ च तत्र देवौ, घृतवरे द्वीपे कनककनकप्रभौ देवी, घृतोदेसमुद्रेसद्यो विस्यन्दितगोघृतास्वादतत्कालप्रविकसितकर्मिकारपुष्पवर्णाभंतोयं कान्तसुकान्तौ तत्र देवौ, इक्षुवरे द्वीपे सुप्रभमहाप्रभौ देवौ, इक्षुवरे समुद्रे जात्यवरपुण्ड्रामिक्षूणामपनीतमूलोपरित्रिभागानां विशिष्टदगन्धद्रव्यपरिवासितानां यो रसः श्लक्ष्णवस्त्रपरिपूतस्तस्मादपीष्टतरास्वादं तोयं पूर्णपूर्णप्रभौ चतत्र देवी, नन्दीश्वरे द्वीपे कैलाशहस्तिवाहनौदेवी, नन्दीश्वरे समुद्रे इक्षुरसास्वादं तोयं सुमनःसौमनसौ देवी, एते अष्टावपि च द्वीपाअष्टावपि समुद्रा एकप्रत्यवताराः, एकैकरूपा इत्यर्थः, अत ऊर्ध्वं तु द्वीपाः समुद्राश्च त्रिप्रत्यवतारास्तद्यथा __ अरुणः अरुणवरोऽरुणवरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभास इत्यादि, तत्रारुणेद्वीपे अशोकवीतशोकौ देवौ, अरुणोदे समुद्रे सुभद्रमनोभद्रौ, अरुणवरे द्वीपेअरुणवरभद्रअरुणवरमहाभद्रौ, अरुणवरे समुद्ने अरुणवरभद्रारुणवरमहाभद्रौ अरुणवरावभासे द्वीपेअरुणवरावभासभद्रअरुणवरावभासमहाभद्रौ अरुणवरावभासे समुद्रे अरुणवरावभासवरारुणवरावभासमहावरौ, कुण्डले द्वीपे कुण्डलकुण्डभद्रौदेवौ कुण्डलसमुद्रेचक्षुशुभचक्षुकान्तौ कुण्डलवरे द्वीप कुण्डलवरभद्रकुण्डलवरमहाभद्रौ कुण्डवरे समुद्रे कुण्डलवरकुण्डलमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्रौ कुण्डलवरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ, एते सूत्रोपात्ता द्वीपसमुद्राः, अतऊर्ध्वंतु सूत्रानुपात्ता दर्श्यन्ते, कुण्डलवरावभाससमुद्रानन्तरं रुचको द्वीपः रुचकः समुद्रः, ततो रुचकवरो द्वीपो रुचकवरः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340