Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 311
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९६ वृ. 'ता कहं ते' इत्यादि, त इति पूर्ववत्, कथं - केन प्रकारेण केनान्वर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत् ? भगवानाह - 'ता चंदस्स णमित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्के - मृगचिह्ने विमाने अधिकरणभूते कान्ताः - कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिषराजः सौम्यः - अरौद्राकारः कान्तः - कान्तिमान् सुभगः सौभाग्ययुक्तत्वात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं- अप्रत्यङ्गावयवसन्निवेशविशेषो यस्य स सुरूपः, ता - ततः एवं खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत्, किमुक्तं भवति ? ३०८ सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कया व्युत्पत्येति, उच्यते, इह 'शश कान्ता' विति धातुरदन्तश्चीरादिकोऽस्ति, चुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्त्तव्याः, अत एव चन्द्रगोणी चुरादिगणस्यापरिमिततया परमार्थतो यथालक्ष्यमनुसरणमवगम्य द्वित्रानेव चुरादिधातून पठितवान् न भूयसः, ततो णिगन्तस्य राशनं शश इति धञ्प्रत्यये राश इति भवति, शशोऽस्यास्तीति राशी, स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः, अन्ये तु व्याचक्षते - शशीति सह श्रिया वर्त्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं । 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण केनान्वर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह - 'ता सूराइया' इत्यादि, सूर आदि-प्रथमो येषां ते सूरादिकाः, के इत्याह- 'समयाइति वा' समया - अहोरात्रादिकालस्य निर्विभागा भागाः, ते सूरादिकाः - सूरकारणाः, तथाहि - सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसङ्घयेयसमयसमुदायात्मिका आवलिका असङ्घयेया आवलिका एक आनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्यावलिकाप्रमाण एक आनप्राण इति वृद्धसम्प्रदायः, तथा चोक्तम् 119 11 “एगो आणापाणू तेयालीसं सया उ बावन्ना । आवलियपमाणेणं अनंतनाणीहिं निद्दिठ्ठो ॥” सप्तानप्राणप्रमाणः स्तोकः, यावच्छब्दान्मुहूर्त्तादयो द्रष्टव्याः, ते च सुगमत्वात् स्वयं भावनीयाः, 'एवं खलु' इत्यादि, एवमनेन कारणेन खलु निश्चितः सूर आदित्यः २ इत्याख्यात इति वदेत्, आदौ भव आदित्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः । मू. (१९७) ता चंदस्स णं जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पन्नत्ताओ ता चंद० चत्तारि अग्गमहिसीओ पन्नत्ताओ, - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, जहा ट्ठा तं चैव जव नो चेवणं मेहुणवत्तियं, एवं सूरस्सवि नेतव्वं, ता चंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणो केरिसगा कामभोगे पञ्चणुभवमाणा विहरंति ? ता से जहा नामते केई पुरिसे पढमजोव्वणुट्ठाणबलसमत्थे पढमजोव्वणुट्ठाणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अत्थगवेसणताए सोलसवासविप्पवसिते से णं ततो लट्टे कतकज्जे अणहसमग्गे पुनरवि नियगघरं हव्यमागते हाते कतबलिकम्मे कयकोउय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340