________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९६
वृ. 'ता कहं ते' इत्यादि, त इति पूर्ववत्, कथं - केन प्रकारेण केनान्वर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत् ? भगवानाह - 'ता चंदस्स णमित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्के - मृगचिह्ने विमाने अधिकरणभूते कान्ताः - कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिषराजः सौम्यः - अरौद्राकारः कान्तः - कान्तिमान् सुभगः सौभाग्ययुक्तत्वात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं- अप्रत्यङ्गावयवसन्निवेशविशेषो यस्य स सुरूपः, ता - ततः एवं खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत्, किमुक्तं भवति ?
३०८
सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कया व्युत्पत्येति, उच्यते, इह 'शश कान्ता' विति धातुरदन्तश्चीरादिकोऽस्ति, चुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्त्तव्याः, अत एव चन्द्रगोणी चुरादिगणस्यापरिमिततया परमार्थतो यथालक्ष्यमनुसरणमवगम्य द्वित्रानेव चुरादिधातून पठितवान् न भूयसः, ततो णिगन्तस्य राशनं शश इति धञ्प्रत्यये राश इति भवति, शशोऽस्यास्तीति राशी, स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः, अन्ये तु व्याचक्षते - शशीति सह श्रिया वर्त्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं ।
'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण केनान्वर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह - 'ता सूराइया' इत्यादि, सूर आदि-प्रथमो येषां ते सूरादिकाः, के इत्याह- 'समयाइति वा' समया - अहोरात्रादिकालस्य निर्विभागा भागाः, ते सूरादिकाः - सूरकारणाः, तथाहि - सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसङ्घयेयसमयसमुदायात्मिका आवलिका असङ्घयेया आवलिका एक आनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्यावलिकाप्रमाण एक आनप्राण इति वृद्धसम्प्रदायः, तथा चोक्तम्
119 11
“एगो आणापाणू तेयालीसं सया उ बावन्ना । आवलियपमाणेणं अनंतनाणीहिं निद्दिठ्ठो ॥”
सप्तानप्राणप्रमाणः स्तोकः, यावच्छब्दान्मुहूर्त्तादयो द्रष्टव्याः, ते च सुगमत्वात् स्वयं भावनीयाः, 'एवं खलु' इत्यादि, एवमनेन कारणेन खलु निश्चितः सूर आदित्यः २ इत्याख्यात इति वदेत्, आदौ भव आदित्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः ।
मू. (१९७) ता चंदस्स णं जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पन्नत्ताओ ता चंद० चत्तारि अग्गमहिसीओ पन्नत्ताओ, - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, जहा ट्ठा तं चैव जव नो चेवणं मेहुणवत्तियं, एवं सूरस्सवि नेतव्वं, ता चंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणो केरिसगा कामभोगे पञ्चणुभवमाणा विहरंति ?
ता से जहा नामते केई पुरिसे पढमजोव्वणुट्ठाणबलसमत्थे पढमजोव्वणुट्ठाणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अत्थगवेसणताए सोलसवासविप्पवसिते से णं ततो लट्टे कतकज्जे अणहसमग्गे पुनरवि नियगघरं हव्यमागते हाते कतबलिकम्मे कयकोउय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org