________________
प्राभृतं २०, प्राभृतप्राभृतं -
३०७
पर्वराहुश्च, तत्र यः सदैव चन्द्रविमानस्याधस्तात् सञ्चरति स ध्रुवराहुः, यस्तु पर्वणि- पौर्णमास्यां अमावास्यायां वा यथाक्रमं चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः, तत्र योऽसौ ध्रुवराहुः स बहुलपक्षस्य कृष्णपक्षस्य - सम्बन्धिन्याः प्रतिपद आरभ्य प्रतितिथि आत्मीयेन पञ्चदशेन भागेन पञ्चदशभागं २ चन्द्रस्य लेश्यामावृण्वन् तिष्ठति, तद्यथा - प्रथमायां - प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं द्वितीयस्यां द्वितीयं तृतीयस्यां तृतीयं यावत्पञ्चदश्यां पञ्चदशं, ततः पञ्चदश्यां तिथौ चरम समये रक्तो भवति - राहुविमानेनोपरक्तो भवति, सर्वात्मना राहुविमानेनाच्छादितो भवतीत्यर्थः, अवशेषे समये प्रतिपदद्वितीयातृतीयादिकाले चन्द्रो रक्तश्च भवति विरक्तश्च भवति, देशेन राहुविमानेनाच्छादितो भवति देशतश्चानाच्छादित इत्यर्थः, शुक्लपक्षस्य प्रतिपद आरभ्य पुनस्तमेव पञ्चदशं २ भागं प्रतितिथि उपदर्शयन्- प्रकटीकुर्वन् तिष्ठति, तद्यथा
प्रथमायां प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं प्रकटीकरोति द्वितीयायां द्वितीयं एवं यावत् पञ्चदश्यां पौर्णमास्यां पञ्चदशं पञ्चदशभागं, चरमसमये - पौर्णमासीचरमसमये चन्द्रः सर्वात्मना विरक्तो भवति, सर्वात्मना प्रकटीभवतीत्यर्थः, लेशतोऽपि राहुविमानेनानाच्छादितत्वात्, आह- शुक्लपक्षे कृष्णपक्षे वा कतिपयान् दिवसान् यावत् ाहुविमानं वृत्तमुपलभ्यते, यथा ग्रहणकाले पर्वराहुः, कतिपयांश्च दिवसान् यावन्न तथा, ततः किमत्र कारणमिति ?, उच्यते, इह येषु दिवसेष्वतिशयेन तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति, चन्द्रप्रभायां बाहुल्येन प्रसराभावतो राहुविमानस्य यथावस्थिततयोपलम्भात्, येषु पुनश्चन्द्रो भूयान् प्रकटो भवति तेषु न चन्द्रप्रभा राहुविमानेनाभिभूयते किन्त्वतिबहुलतया चन्द्रप्रभयैव स्तोकं २ राहुविमानप्रभाया अभिभवस्ततो न वृत्ततोपलम्भः, पर्वराहुविमानं च ध्रुवराहुविमानादतीव तमोबहुलं ततस्तस्य स्तोकस्यापि न चन्द्रस्य प्रभयाऽभिभवसम्भव इति तस्य स्तोकरूपस्यापि वृत्तत्वेनोपलब्धि, तथा चाह विशेषणवत्यां जिनभद्रगणिक्षमाश्रमणः
|| 9 ||
"वट्टच्छेओ कइवयदिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीस जह गहणे पव्वराहुस्स ॥"
॥ २ ॥ आचार्य आह-अञ्च्चत्थं नहि तमसाऽभिभूयते जं ससी विमुच्चंतो । तेणं वट्टच्छेओ गहणे उ तमो तमोबहुलो ॥
'तत्थ णं जे से' इत्यादि, तत्र योऽसौ पर्वराहुः स जघन्येन षण्णां मासानामुपरि चन्द्रस्य सूर्यस्य चोपरागं करोति, उत्कर्षतो द्वाचत्वारिंशतो मासानामुपरि चन्द्रस्य अष्टाचत्वारिंशतः संवत्सराणामुपरि सूर्यस्य ।
सम्प्रति चन्द्रस्य लोके शशीति यदभिधानं प्रसिद्धं तस्यान्वर्थतावगमनिमित्तं प्रश्नं करोति
मू. (१९६) ता कहं ते चंदे ससी आहितेति वदेज्जा ?, ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसनसयनखंभभंडमत्तोवगरणाई अप्पणावि णं चंदे देवे जोतिसिंदे जोतिसराया सोमे कंते सुभे पियदंसणे सुरूवे ता एवं खलु चंदे ससी चंदे ससी आहितेति वदेज्जा । ता कहं ते सूरिए आदिच्चे सूरे २ आहितेति वदेज्जा ?, ता सूरादीया समयाति वा आवलियाति वा आणापाणूति वा थोवेति वा जाव उस्सप्पिणिओसप्पिणीति वा, एवं खलु सूरे आदिच्चे २ आहितेति वदेज्जा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org