________________
३०६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९५ सच देवो महर्द्धिको महाद्युति महाबलो महायशा महासौख्यो महानुभावः, एतेषां पदानामर्थः प्राग्वद्भावनीयः, वरवस्त्रधरोवरमाल्यधरोवरामरणधारी, राहुस्सण मित्यादि, तस्यचराहोर्देवस्य नव नामधेयानि प्रज्ञप्तानि, तद्यथा-'सिंघाडए'इत्यादि सुगम, ‘ता राहुस्स न'मित्यादि, ता इति पूर्ववत्, राहोर्देवस्य विमानानिपञ्चवर्णानिप्रज्ञप्तानि, किमुक्तंभवति?-पञ्चविमानानिपृथगेकैकवर्णयुक्तानि प्रज्ञप्तानि, तद्यथा- 'किण्हे नीले' इत्यादि, सुगम, नवरं खञ्जनं-दीपमल्लिकामलः 'लाउयवण्णाभे'इति आर्द्रतुम्बवर्णाभ, ‘ता जया णं'०, ता इति-तत्र यदा राहुर्देव आगच्छन् कुतश्चित्स्थानात्गच्छन्वाकापिस्थाने विकुर्वन्वा-स्वेच्छयातांतां विक्रियांकुर्वन्वा परिरणबुद्धया इतस्ततोगच्छन्वाचन्द्रस्य वासूर्यस्यवालेश्या-विमानगतधवलिमानं 'पुरच्छिमेणं'तिपौरस्त्येनावृत्याग्रभागेनावृत्येत्यर्थः, पाश्चात्यभागेन व्यतिव्रजति-व्यतिक्रमति तदा पौरस्त्येन चन्द्रः सूर्यो वाऽऽत्मानं दर्शयति पश्चिमभागेन राहुः, किमुक्तं भवति ?-तदा मोक्षकाले चन्द्रः सूर्यो वा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताच पश्चिमभागे राहुरिति ।
___ “एवंजयाणंराहू इत्याद्यपिदक्षिणोत्तरविषयं सूत्र भावनीयं, एएण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन ‘पञ्चस्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं आवरित्ता दाहिणेणं वीईवयई'इत्येतदविषये अपि द्वे सूत्र वक्तव्ये, ते चैवम्-‘ता जया णं राहू देवे आगच्छमाणे० विउव्वमाणे वा० चंदस्स वा सूरस्स वा लेस पञ्चत्थिमेणं आवरित्ता पुरच्छिमेणं वीइवयइ तयाणं पञ्चत्थिमेणं चंदे सूरे वा उवदंसेइ पुरच्छिमे णं राहू, एवं द्वितीयसूत्रेऽपि वक्तव्यं, “एवं जया ण'मित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमोत्तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि। ___'ता जया णमित्यादि, सुगमं, नवरमयं भावार्थ-यदा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य स्थितोभवतिराहुस्तदालोके एवमुक्तिर्यथा राहुणाचन्द्रः सूर्योवागृहीतइति, यदातुराहुर्लेश्यामावृत्य पार्श्वेन व्यतिक्रमति तदैवं मनुष्याणामुक्ति यथा चन्द्रेण सूर्येण वाराहोः कुक्षिर्भिन्ना, राहोः कुक्षिं भित्वाचन्द्रः सूर्योवानिर्गत इति भावः,यदाच राहुश्चन्द्रस्य सूर्यस्यवालेश्यामावृत्य प्रत्यवष्वष्कतेपश्चादवसर्पति तदैवं मनुष्यलोके मनुष्याः प्रवदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति, यदाच राहुश्चन्द्रस्य सूर्यस्य वामध्यभागेनलेश्यामावृण्वन् व्यतिव्रजति-गच्छति तदैवं मनुष्यलोके प्रवादो, यथा-चन्द्रः सूर्यो वा राहुणा व्यतिचरित इति, किमुक्तं भवति?-मध्यभागेन विभिन्न इति, यदा च राहुश्चन्द्रस्य सूर्यस्य वा 'सपक्खि'मिति सह पक्षैरिति सपक्षं सर्वेषु पार्श्वेषु पूर्वापरदक्षिणोत्तररूपेष्वित्यर्थः, सह प्रतिदिग्भिः सप्रतिदिक, सर्वास्वपि विदिक्षु इत्यर्थः, लेश्यामावृत्याधस्तिष्ठति तदैवं मनुष्यलोकोक्तिर्यथा राहुणा चन्द्रः सूर्यो वा सर्वात्मना गृहीत इति।
___ आह-चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं राहुविमानस्य सर्वात्मना चन्द्रविमानावरणसम्भवः?, उच्यते, यदिदंग्रहविमानानामर्द्धयोजनमितिप्रमाणं तत्प्रायिकमवसेयं,ततोराहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं सम्भाव्यते इति न कदा(का)चिदनुपपत्ति, अन्ये पुनरेवमाहुः-राहुविमानस्य महान् बहलस्तिमिश्ररश्मिसमूहस्ततो लघीयसाऽपि राहुविमानेन महता बहलेन तमिश्ररश्मिजालेन प्रसरमधिरोहता सकलमपि चन्द्रमण्डलमाव्रियते ततो न कश्चिद्दोषः । अथ राहोर्भेदं जिज्ञासिषुः
Jain Education International
For Private & Personal Use Only
For en
www.jainelibrary.org