SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २०, प्राभृतप्राभृतं ३०५ भवइ, अवसेसे समए चंदे रत्ते विरत्ते य भवति, तत्थ णं जे ते पव्वराहू से जहन्नेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स ॥ वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं- केन प्रकारेण भगवान् ! त्वया राहुकर्म्मराहुक्रिया आख्यातमिति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदर्शयति- 'तत्थे'त्यादि, तत्र - राहुकर्म्मविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, 'तत्थेगे' इत्यादि, तत्र तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः - ता इति पूर्ववत् अस्ति णमिति वाक्यालङ्क्तरे राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णाति, अत्रोपसंहारमाह - एगे एवमाहंसु । 'एके पुण एवमाहंसु' एके पुनरेवमाहुः, ता ति पूर्ववत्, नास्ति स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णाति तदेवं प्रतिपत्तिद्वयमुपदर्श्य सम्प्रत्येतद्भावनार्थमाह- 'तत्थे' त्यादि, तत्र ये ते वादिनः एवमाहुः–अस्ति स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णातीति त एवमाहुः -त एवं स्वमतभावनिकां कुर्वन्ति । ‘ता राहू ण' मित्यादि, ता इति पूर्ववत् राहुर्देवश्चन्द्रं सूर्यं वा गृह्णन् कदाचित् बुघ्नान्तेनैव गृहीत्वा बुघ्नान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः, कदाचित बुघ्नान्तेन गृहीत्वा मूर्द्धान्तेन मुञ्चति, अधोभागेन गृहीत्वा उपरितनेन भागेन मुञ्चतीत्यर्थः, अथवा कदाचित् मुर्द्धान्तेन गृहीत्वा बुघ्नान्तेन मुञ्चति, यदिवा मूर्द्धान्तेन गृहीत्वा मूर्द्धान्तेनैव मुञ्चति भावार्थ प्राग्वद् भावनीयः, अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्जति, किमुक्तं भवति ? - वामपार्श्वेन गृहीत्वा वामपार्श्वेनैव मुञ्चति, यदिवा वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थ सुगमः । 'तत्थ जे ते ' इत्यादि, तत्र - तेषां द्वयानां परतीर्थिकानां मध्ये ये ते एवमाहुः यथा नास्ति स राहुर्देवो यश्चन्द्रं सूर्यं वा गृह्णातीति ते एवमाहुः, 'तत्यण' मित्यादि, तत्र जगति णमिति वाक्यालङ्क्तरे इमे वक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाः प्रज्ञप्ताः, 'तद्यथे' त्यादिना तानेव दर्शयति-- एते यथासम्प्रदायं वैविक्त्येन प्रतिपत्तव्याः । 'ता जया ण' मित्यादि, ततो यदा णमिति वाक्यालङ्क्तरे एते अनन्तरोदिताः पञ्चदशभेदाः कृष्णाः पुद्गलाः कृत्स्नाः– समस्ता 'सता' इति सदा सातत्येनेत्यर्थः चन्द्रस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः- चन्द्रसूर्यबिम्बगतप्रभानुचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति, यथा एवं खलु राहुश्चन्द्रं सूर्यं वा गृह्णातीति, 'ता जया ण' मित्यादि, ता इति पूर्ववत्, यदा मिति पुनरर्थे निपातस्यानेकार्थत्वात् यदा पुनरेते पञ्चदश कृष्णाः पुद्गलाः समस्ताः नो सदा-न सातत्येन चन्द्रस्य सूर्यस्य वा लेश्यानुबन्धचारिणो भवन्ति, न खलु तदा मनुष्यलोके मनुष्या एवं वदन्ति - यथा एवं खलु राहुश्चेन्द्रं सूर्यं वा गृह्णातीति तेषामेवोपसंहारवाक्यमाह 'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण राहुश्चन्द्रं सूर्यं वा गृह्णातीति लौकिकं वाक्यं प्रतिपत्तव्यं, न पुनः प्रागुक्तपरतीर्थिकाभिप्रायेण, भगवानाह - 'एते' इत्यादि, एते परतीर्थिका एवमाहुः, 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलाः केवलविदोपलभ्य एवं वदामो, यथा'राहूण' मित्यादि, ता इति पूर्ववत्, राहुः णमिति वाक्यालङ्क्तरे, न देवोन परपरिकल्पितपुद्गलमात्रं 12 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy