Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्राभृतं १९, प्राभृतप्राभृतं -
२८९
छच्च सता छन्नउया नक्खत्ता तिन्निय सहस्सा ॥ मू. (१५९) अट्ठासीइ चत्ताइं सतसहस्साइं मणुयलोगंमि।
सत्त य सता अणूणा तारागणकोडिकोडीणं॥ वृ. 'बत्तीसं चंदसय मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपिसुगम, 'अट्ठासीई चत्ता इति अष्टाशीतिशतसहस्राणिचत्वारिंशानि-चत्वारिंशत्सहस्राधिकानि शेषं गतार्थं, सम्प्रति सकलमनुष्यलोकगततारागणस्यैवोपसंहारमाहमू. (१६०) एसो तारापिंडो सव्वसमासेण मणुयलोयंमि।
बहिता पुण ताराओ जिणेहिं भणिया असंखेजाओ!" वृ. 'एसो' इत्यादि, एषः-अनन्तरगातोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्ययामनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः-सर्वहस्तीर्थकृभिर्भणिता असङ्ख्याताः, द्वीपसमुद्राणामसङ्ख्यातत्वात्, प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं सङ्ख्येयानाम्सङ्ख्येयानांच ताराणां सद्भावात्। मू. (१६१) एवतियं तारगंजंभणियं माणुसंमि लोगंमि।
चारं कलंबुयापुप्फसंठितं जोतिसंचरति। वृ. एवतिय'मित्यादि, एतावत्सङ्ख्याकंतारापरिमाणं यदनन्तर भणितं मानुषे लोके तत् ज्योतिष्कं-ज्योतिष्कदेवविमानरूपं कदम्बपुष्पसंस्थितं कदम्बपुष्पवत् अधःसङ्कुचितंउपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमित्यर्थःचारंचरतिचारंप्रतिपद्यते, तथाजगत्स्वाभाव्यात, ताराग्रहणं चोपलक्षणंतेन सूर्यादयोऽपियतोक्तसङ्ख्याकामनुष्यलोकेतथाजगत्स्वाभाव्याचारं प्रतिपद्यन्ते इति द्रष्टव्यं । ' मू. (१६२) रविससिंगहनक्खत्ता एवतिया आहिता मणुयलोए।
जेसिं नामागोतं न पागता पन्नवेहंति॥ वृ. सम्प्रत्येतदगतमेवोपसंहारमाह-रवी'त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणिच एतावन्ति-एतावत्सङ्घयानिआख्यातानि सर्वज्ञैर्मनुष्यलोके, येषां किमित्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं 'नामगोत्राणि इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः-नामगोत्राणि-अन्वर्थयुक्तानि नामानि यदिवा नामानिच गोत्राणिचनामगोत्राणिप्राकृता-अनतिशयिनः पुरुषान कदाचनापिप्रज्ञापनायिष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव, तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषांप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयमिति । मू. (१६३) छावलुि पिडगाइं चंदादिचाण मणुलोयंमि।
दो चंदा दो सूरा य हुंति एक्के कए पिडए॥ वृ. 'छावट्ठी पिडगाई'इत्यादि, इह द्वौ चन्द्रौ द्वौ सूर्यौ चैकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टि-षट्षष्टिसङ्ख्याकानि । अथ किंप्रमाणंपिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौचन्द्रौ द्वौ सूर्यौ भवतः, किमुक्तं | 12|191
Jailh Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340