Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्राभृतं १५, प्राभृतप्राभृतं
२६९ भगवानाह-'ता दोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यांचरति, तथाहि-यदि सूर्यस्य मण्डलानांनवभिः शतैः पञ्चदशोत्तरैरष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते तत एकेन मण्डलेन कति अहोरात्रान् लभामहे ?, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धौ द्वावहोरात्राविति।
'ता एगमेग'मित्यादिताइति पूर्ववत् एकैकमात्मीयंमण्डलं नक्षत्रं कतिभिरहोरात्रेश्चरति भगवानाह-द्वाभ्यामहोरात्राभ्यां द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तषष्टैः- सप्तषष्ट्यधिकैः शतै रात्रिन्दिवं छित्वा, तथाहि-यदि नक्षत्रस्य मण्डलानामष्टादशभः शतैः पञ्चत्रिं-शदधिकैः षट्त्रिंशच्छतानिषष्ट्यधिकानि रात्रिन्दिवानांलभामहेततएकेन मण्डलेन किंलभामहे अत्रान्त्येन राशिना मध्यराशेस्ताडनं जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनो राशि त्रीणि शतानि पञ्चषट्यधिकानि छेदराशिस्त्रणि शतानि सप्तषष्ट्यधिकानि । तत आगतं द्वाभ्यां सप्तषष्ट-यधिकत्रिशतभागाभ्या हीनं द्वितीयं रात्रिन्दिवमिति । ___सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतीन्नरूपणार्थमाह-'ता जुगे ण'मित्यादि, ता इति पूर्ववत्, युगेन कति मण्डलानिचरति?, भगवानाह-'ता अढे'त्यादि, ता इति पूर्ववत, अष्टौ मण्डलशतानिचतुरशीत्यधिकानि चरति, चन्द्रः एकेन शतसहस्राणाष्टानवत्या शतैः प्रविभक्तस्य मण्डलस्याष्टषष्ट्यधिकसप्तदशशतसङ्क्षयान् भागान् एकेन मुहूर्तेन गच्छति, युगेच मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्त्रणि नव शतानि, ततः सप्तदश शतानि अष्टषष्टयधिकानि चतुःपञ्चाशता सहस्रनवभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिर्लक्षास्त्रिषष्टिः सहस्राणि द्वे शते ततोऽस्य राशेरेकेन शतसहस्राणाष्टानवत्या च शतैः मण्डला- नयनाय भागो ह्रियते, लब्धानि अष्टौ शतानि चतुरशीत्यधिकानि मण्डलानामिति।
'ता जुगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-‘ता नवपण्णरसे' त्यदि, ता इतिपूर्ववत्, नवमण्डलशतानि पञ्चदशाधिकानिचरति, तथाहि-यदिद्वाभ्यामहोरात्राभ्यामेकं सूर्यमण्डलं लभ्यते ततः सकलयुगभाविभिरष्टादशभिरहोरात्रशतैस्त्रशदधिकैः कति मण्डलानि लभ्यन्ते?, अत्रान्त्येन राशिना मध्यराशेर्गुणनंजातान्यष्टादशशतानि त्रिंशदधिकानि तेषामायेन राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि ।
'ताजुगेण मित्यादि नक्षत्रविषयंप्रश्नसूत्रसुगम, भगवानाह-'ताअट्ठारसे'त्यादि, अष्टादश द्विभागमण्डलशतानि-अर्द्धमण्डलशतानि पञ्चत्रिंशानि-पञ्चत्रिंशदधिकानि चरति, तथाहिनक्षत्रमेकेन शतसहस्राणाष्टानवत्याचशतैःप्रविभक्तस्यमण्डलस्य सत्कान्पञ्चत्रिंशदधिकाष्टादशशतसङ्क्षयान् भागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्राणि नव शतानि, ततस्तैश्चतुःपञ्चाशता सहनैनवभि शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जातादश कोटयः सप्त लक्षा एकचत्वारिंशत्सहस्राणि पञ्च शतानि, अर्द्धमण्डलानिचेह ज्ञातुमिष्टानि तत एकस्य शतसहनस्याष्टानवतेश्च शतानामर्द्धयानि चतुःपञ्चाशत्सहस्राणि नवशतानि तैर्भागो ह्रियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानामिति ।
सम्प्रतिसकलप्राभृतगतमुपसंहारमाह-'इच्चेसा मुहत्तगई'इत्यादि, इति एवमुक्तेनप्रकारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340