Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११४ भागेहिं अधितेहिं चउहिंचोतालेहिंसतेहिं राइदिएहिं छेत्ता, ताएगमेगंमंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति।
ता एगमेगं मंडलं नक्खत्ते कतिहिं अहोरत्तेहिं चरति?, ता दोहिं अहोरत्तेहिं चरति दोहिं ऊणेहिं तिहिं सत्तस हिं सतेहिं राइदिएहिं छेत्ता।
ता जुगेणं चंदे कति मंडलाइं चरति?, ता अट्ठचुल्लसीते मंडलसते चरति, ता जुगेणं सूरे कतिमंडलाइंचरति ?, ता नवपन्नरमंडलसते चरति, ताजुगेणं नक्खत्ते कति मंडलाइंचरतिता अट्ठारस पणतीसेदुभागमंडलसते चरति।इच्चेसामुहत्तगती रिक्खातिमासराइंदियजुगमंडलपविभत्ता सिग्घगती वत्थु आहितेत्ति बेमि॥
वृ. 'ता एगमेगेण मित्यादि, ता इति पूर्ववत्, एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति?, भगवानाह-'ता एग'मित्यादि, एकमर्द्धमण्डलं चरति एकत्रिंशता भागैन्यूँनं नवभिः पञ्चदशोत्तरैःशतैरर्द्धमण्डलं छित्वा, तथाहि-रात्रिन्दिवानामष्टादशभिशतैस्त्रिंशदधिकैः सप्तदश शतानि अष्टषष्ट्यधिकानि अर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन रात्रिन्दिवेन किं लभ्यते अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिगुण्यतेजातः सतावानेव तस्यायेन राशिना १८३० भागहरणं, सचोपरितनस्य राशेः स्तोकत्वाद् भागं न लभते ततश्छेद्यदकराश्योर्द्विकेनापवर्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि पञ्चदशोत्तराणि । तत आगतमेकत्रिंशता भागैन्यूँनमेमर्द्धमण्डलं नवभिः पञ्चदशोत्तरैः प्रविभक्तमिति।
'ता एगमेगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम,भगवानाह-'ता एग मित्यादि, एकमर्द्धमण्डलंचरति, एतच्च सुप्रतीतमेव, 'ता एगमेगेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रंसुगम, भगवानाह-'ताएगमेगेण मित्यादि, एकमर्द्धमण्डलं द्वाभ्यांभागाभ्यामधिकंचरति द्वात्रिंशदधिकैः सप्तभिशतैरर्द्धमण्डलं छित्वा, तथाहि-यद्यहोरात्राणामष्टादशभि शतैस्त्रिंशदधिकैरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्धमण्डलानिलभ्यन्तेततएकनाहोरात्रेण किं लभ्यते?, अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धमेकमर्द्धमण्डलं शेषास्तिष्ठन्ति पञ्च ततश्छेद्यच्छेदकराश्योरर्द्धतृतीयैरपवर्तना जातावुपरि द्वौ अधस्तात् सप्तशतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागौ।
अधुना एकैकं परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतनिरूपणार्थमाह-"ता एग'मित्यादि, ता इति पूर्ववत्, एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैश्चरति ?, भगवानाह-'तादोहिं इत्यादि द्वाभ्यामहोरात्राभ्यांचरति एकत्रिंशता भागैरधिकाभ्यांचतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवंछित्वा, तथाहि-यदिचन्द्रस्यमण्डलानामष्टभि शतैश्चतुर्शीत्यधिकैरहोरात्राणामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे अत्रान्त्येन राशिना मध्यराशेर्गुणनंजातः सतावानेव तस्यायेन राशिना चतुरशीत्यधिकाष्टशतप्रमाणेन भागहरणंलब्धौ द्वावहोरात्रौशेषास्तिष्ठति द्वाषष्टि ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनो राशिरेकत्रिंशद्रूपोऽधस्तन-श्चत्वारि शतानि द्वाचत्वारिंशदधिकानि आगतं एकत्रिंशत् द्विचत्वारिंशदधिकचतुःशतभागाः ।
‘ता एगमेग'मित्यादि, ता इति पूर्ववत्, एकैकं मण्डलं सूर्य कतिभिरहोरात्रैश्चरति ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340