SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११४ भागेहिं अधितेहिं चउहिंचोतालेहिंसतेहिं राइदिएहिं छेत्ता, ताएगमेगंमंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति। ता एगमेगं मंडलं नक्खत्ते कतिहिं अहोरत्तेहिं चरति?, ता दोहिं अहोरत्तेहिं चरति दोहिं ऊणेहिं तिहिं सत्तस हिं सतेहिं राइदिएहिं छेत्ता। ता जुगेणं चंदे कति मंडलाइं चरति?, ता अट्ठचुल्लसीते मंडलसते चरति, ता जुगेणं सूरे कतिमंडलाइंचरति ?, ता नवपन्नरमंडलसते चरति, ताजुगेणं नक्खत्ते कति मंडलाइंचरतिता अट्ठारस पणतीसेदुभागमंडलसते चरति।इच्चेसामुहत्तगती रिक्खातिमासराइंदियजुगमंडलपविभत्ता सिग्घगती वत्थु आहितेत्ति बेमि॥ वृ. 'ता एगमेगेण मित्यादि, ता इति पूर्ववत्, एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति?, भगवानाह-'ता एग'मित्यादि, एकमर्द्धमण्डलं चरति एकत्रिंशता भागैन्यूँनं नवभिः पञ्चदशोत्तरैःशतैरर्द्धमण्डलं छित्वा, तथाहि-रात्रिन्दिवानामष्टादशभिशतैस्त्रिंशदधिकैः सप्तदश शतानि अष्टषष्ट्यधिकानि अर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन रात्रिन्दिवेन किं लभ्यते अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिगुण्यतेजातः सतावानेव तस्यायेन राशिना १८३० भागहरणं, सचोपरितनस्य राशेः स्तोकत्वाद् भागं न लभते ततश्छेद्यदकराश्योर्द्विकेनापवर्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि पञ्चदशोत्तराणि । तत आगतमेकत्रिंशता भागैन्यूँनमेमर्द्धमण्डलं नवभिः पञ्चदशोत्तरैः प्रविभक्तमिति। 'ता एगमेगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम,भगवानाह-'ता एग मित्यादि, एकमर्द्धमण्डलंचरति, एतच्च सुप्रतीतमेव, 'ता एगमेगेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रंसुगम, भगवानाह-'ताएगमेगेण मित्यादि, एकमर्द्धमण्डलं द्वाभ्यांभागाभ्यामधिकंचरति द्वात्रिंशदधिकैः सप्तभिशतैरर्द्धमण्डलं छित्वा, तथाहि-यद्यहोरात्राणामष्टादशभि शतैस्त्रिंशदधिकैरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्धमण्डलानिलभ्यन्तेततएकनाहोरात्रेण किं लभ्यते?, अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धमेकमर्द्धमण्डलं शेषास्तिष्ठन्ति पञ्च ततश्छेद्यच्छेदकराश्योरर्द्धतृतीयैरपवर्तना जातावुपरि द्वौ अधस्तात् सप्तशतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागौ। अधुना एकैकं परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतनिरूपणार्थमाह-"ता एग'मित्यादि, ता इति पूर्ववत्, एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैश्चरति ?, भगवानाह-'तादोहिं इत्यादि द्वाभ्यामहोरात्राभ्यांचरति एकत्रिंशता भागैरधिकाभ्यांचतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवंछित्वा, तथाहि-यदिचन्द्रस्यमण्डलानामष्टभि शतैश्चतुर्शीत्यधिकैरहोरात्राणामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे अत्रान्त्येन राशिना मध्यराशेर्गुणनंजातः सतावानेव तस्यायेन राशिना चतुरशीत्यधिकाष्टशतप्रमाणेन भागहरणंलब्धौ द्वावहोरात्रौशेषास्तिष्ठति द्वाषष्टि ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनो राशिरेकत्रिंशद्रूपोऽधस्तन-श्चत्वारि शतानि द्वाचत्वारिंशदधिकानि आगतं एकत्रिंशत् द्विचत्वारिंशदधिकचतुःशतभागाः । ‘ता एगमेग'मित्यादि, ता इति पूर्ववत्, एकैकं मण्डलं सूर्य कतिभिरहोरात्रैश्चरति ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy