SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १५, प्राभृतप्राभृतं - २६७ शत् सप्त चाहोरात्रा एकादश मुहूर्तास्त्रयोविंशतिश्च द्वाषष्टिभागा मुहूर्तस्य, एष च राशि सांश इति न त्रैराशिककर्मविषयस्ततः परिपूर्णमासप्रतिपत्यर्थःमयं राशि षट्पञ्चाशदधिकेन शतेन गुण्यते,जातानिपरिपूर्णानिनवाशीतिशतानिअष्टाविंशत्यधिकानिअभिवर्द्धितमासानां, किमुक्तंभवति षट्पञ्चाशदधिकशतसङ्क्षयेषु युगेषु एतावन्तः परिपूर्णा अभिवर्द्धितमासाः लभ्यन्ते, एतच्च द्वादशप्राभृते सूत्रकृतैव साक्षादभिहितं, ततस्विराशिककवितारः-यद्यष्टाविंशत्यधिकैरभिवर्द्धितमासैनवाशीतिशतैः षट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिश्चन्द्रमण्डलानामेकंलक्षंसप्तत्रिंशत्सहस्राणिनवशतानिचतुरुत्तराणिलभ्यन्तेतत एकेनाभिवर्द्धितमासेन किंलभामहे? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेस्ताडनाज्जातः सतावानेव तस्यायेन राशिना भागहरणंलब्धानि पञ्चदश मण्डलानि शेषमुद्धरति एकोनचत्वारिंशत् शतानि चतुरशीत्यधिकानि ततश्छेद्यच्छेदकराश्योरष्टाचत्वारिंशताऽ- पवर्तना जात उपरितनो राशिस्त्रयशीतिरधस्तनः पडशीत्यधिकं शतं आगं षोडशमण्डलस्य त्र्यशीति षडशीत्यधिकशतभागाः।। ‘ता अभिवड्डिएण'मित्यादि सूर्यविषयंप्रश्नसूत्रंसुगम, भगवानाह-'सोलसे'त्यादि, षोडश मण्डलानि त्रिभिगिन्यूनानि चरति, मण्डलं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्वा, तथाहि-यदि षट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिरष्टाविंशत्यधिकैरभिवर्द्धितमासैनवाशीतिशतैः सूर्यमण्डलानामेकं लक्षं द्विचत्वारिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकोनाभिवर्द्धितमासेन किं लभामहे? अत्रान्त्येन राशिना एककलक्षणेनमध्यराशि ण्यतेजातः सतावानेव तस्यायेन राशिना भागो ह्रियते लब्धानि पञ्चदशमण्डलानि शेषमुद्धरन्तिअष्टाशीति शतानि विंशत्यधिकानि ततश्छेद्यच्छेदकराश्योः षट्विंशताऽपवर्त्तना जात उपरितनो राशि द्वे शते पञ्चचत्वारिंशदधिके अधस्तनो द्वे शते अष्टाचत्वारिंशदधिके आगतं षोडशं मण्डलं निभिर्भागैयूँनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्तं । 'ताअभिवड्डिएण'मित्यादि नक्षत्रविषयंप्रश्नसूत्रंसुगम,भगवानाह-'ता सोलसे'त्यादि, षोडश मण्डलानि सप्तचत्वारिंशता भागैरधिकानि चतुर्दशभि शतैरष्टाशीत्यधिकैमण्डलं छित्वा, तथाहि-यदि षट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिरभिवर्द्धितमासैर्नवाशीतिशतैरष्टाविंशत्यधिकैर्नक्षत्रमण्डलानामेकंलक्ष त्रिचत्वारिंशत् सहस्राणिशतमेकंत्रिंशदधिकंलभ्यते ततः एकेनाभिवर्द्धितमासेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना भागो ह्रियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शते द्वयशीत्यधिके ततश्छेद्यच्छेदकराश्योः षट्केनापवर्तना जाता उपरि सप्तचत्वारिंशत् अधस् चतुर्दश शतान्यष्टाशीत्यधिकानि आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्दशशतभागाः । सम्प्रत्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह मू. (११४) ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति?, ता एगं अद्धमंडलं चरति एक्कतीसाए भागेहिं ऊणं नवहिं पन्नरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाइंचरति ?, ता एगं अद्धमंडलं चरति, ता एगमेगेणं अहोरत्तेणं नक्खत्ते कति मंडलाइंचरति?, ता एगंअद्धमंडलंचरति दोहिं भागेहिं अधियंसत्तहिं बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता । ता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति?, ता दोहिं अहोरत्तेहिं चरि एक्कतीसाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy