________________
२६६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११३ तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनंजातःसतावानेवतस्य एकषष्ट्या भागहरणंलब्धानि परिपूर्णानि चतुर्दशमण्डलानि पञ्चदशस्य च मण्डलस्य त्रिंशदेकषष्टिभागाः
'ताउउमासेण मित्यादि सूर्यविषयंप्रश्नसूत्रंसुगम, भगवानाह-'तापन्नरसे'त्यादि, पञ्चदश परिपूर्णानिमण्डलानि चरति, तथाहि-यद्येकषष्ट्या कर्ममासैनवशतानिपञ्चदशोत्तराणिसूर्यमण्डलनां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे? अत्रा-न्त्येन राशिना मध्यराशिगुण्यतेजातः स तावानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि पञ्चदश मण्डलानि , 'ता उउमासेण'मित्यादिनक्षत्रविषयंप्रश्नसूत्रं सुगम, भगवानाह-'तापन्नरसे त्यादि, पञ्चदशमण्डलानि चरति, षोडशस्य च मण्डलस्य पञ्च द्वाविंशशतभागान्, तथाहि-यदि द्वाविंशेन कर्ममासशतेनाष्टादशशतानिपञ्चत्रिंशदधिकानिमण्डलानांनक्षत्रस्य लभ्यन्तेततएकेन कर्ममासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना द्वाविंशत्यधिकशतरूपेणभागहरणंलब्धानिपञ्चदशमण्डलानिषोडशस्यच पञ्च द्वाविंशशतभागाः सम्प्रति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयति
'ता आइच्चेण'मित्यादि, ता इति पूर्ववत्, आदित्येन मासेन चन्द्रः कति मण्डलानि चरति भगवानाह-चतुर्दश मण्डलानिचरतिपञ्चदशस्य चमण्डलस्य एकादश पञ्चभागान्, तथाहि-यदि षष्ट्या सूर्यमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानांचन्द्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किंलभामहे? अत्रान्त्येन राशिनामध्यराशेर्गुणनंजातःसतावानेव तस्यषष्ट्या भागहरणं लब्धानि चतुर्दशमण्डलानि शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् ततश्छेद्यच्छेदकराश्योश्चतुष्केनापवर्तनाजत उपरितनो राशिरेकादशरूपोऽधस्तनः पञ्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभगाः 'ता आइच्चेण मित्यादिसूर्यविषयंप्रश्नसूत्रंसुगम भगवानाह-पञ्चदशचतुर्भागाधिकानिमण्डलानि चरति, तथाहि-यदि षष्ट्या सूर्यासैनव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेनमासेन किंलभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः सतावानेव तस्य षष्ट्या भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च षष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः।
‘ता आइच्चेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम्, भगवानाह-'ता पन्नरसे'त्यादि, पञ्चदशमण्डलानि चतुर्भागाधिकानिपञ्चत्रिंशतंविंशत्यधिकशतभागानमण्डलस्यचरति, किमुक्तं भवति?-षोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतभागान् चरति, तथाहि-यदि विंशेन सूर्यमासशतेनाष्टादशशतानिपञ्चत्रिंशदधिकानि मण्डलानांनक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते? अत्रान्त्येन राशिना मध्य-राशिगुणितोजातस्तवानेवतस्य विंशत्यधिकेन शतेन भागहरणंलब्धानिपञ्चदशमण्डलानि पञ्चत्रिंशच्च विंशत्यधिकशतभागाः षोडशस्य अधुना अभिवर्द्धितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह
'ता अभिवड्दिएण'मित्यादि, ता इतिपूर्ववत्, अभिवर्द्धितेनमासेन चन्द्रः कतिमण्डलानि चरति ?, भगवानाह-'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चरति षोडशस्य च मण्डलस्य त्र्यशीतिचतुरशीत्यधिकशतभागान्, तथाहि-अत्रैवं त्रैराशिकं-इहयुगेऽभिवर्द्धितमासाः सप्तपञ्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org