________________
प्राभृतं १५, प्राभृतप्राभृतं -
२६५ लभ्यन्ते तत एकेन नाक्षत्रेण मासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत आधेन राशिना भागहारो लब्धानि सप्तविंशतिरर्द्धमण्डलानि अष्टाविंशतितमस्य चार्द्धमण्डलस्य षड्विंशति सप्तषष्टिभागाः ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकंमण्डलमित्यस्य राशेरर्द्धकरणे लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य सार्धाः षट्चत्वारिंशत्सप्तषष्टिभागाः सम्प्रति चन्द्रमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति- 'ता चंदेण मित्यादि, ता इति पूर्ववत्, चान्द्रेण मासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानिचरति?,भगवानाह___'ता चोद्दसे' त्यादि, चतुर्दश सचतुर्भागमण्डलानि-चतुर्भागसहितानि मण्डलानि चरति एकंच चतुर्विंशशतभागं मण्डलस्य, किमुक्तंभवति?-परिपूर्णानि चतुर्दशमण्डलानि पञ्चदशस्य चमण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कमेकत्रिंशद्भागप्रमाणमेकंचचतुर्विंशत्यधिकशतस्य भाग-द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधकशत भागान् चरति, तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि सप्तदश शतान्यष्टषष्ट्यधिकानि, तेषांचतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानिचतुर्दशमण्डलानिपञ्चदशस्य च मण्डलस्य द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः ‘ता चंदेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, 'ता पन्नरसे'त्यादि, पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरति एकंच चतुर्विंशत्यधिकशतभागं मण्डलस्य, किमुक्तं भवति?
--चतुर्दशपरिपूर्णानिमण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिंचतुर्विंशत्यधिकशतभागान्चरति, तथाहि-यदिचतुर्विंशत्यधिकेन पर्वशतेन नवशतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि , एतेषामाद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानिपञ्चदशस्यचमण्डलस्यचतुर्नवतिश्चतुर्विंशत्यधिकशतभागाः इति, ‘ता चन्देण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह
'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानिचरति षट्च च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्तं भवति?-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य चमण्डलस्य नवनवतिं चतुर्विंशत्यधिकशतभागान्, तथाहि-यदिचतुर्विंशत्यधिकेन पर्वशतेनाटादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि सप्तत्यधिकानि एतेषामाद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भाग-हरणं, लब्धा एकोनत्रिंशत् शेषा तिष्ठति चतुःसप्तति, इदंचार्द्धमण्डलगतंपरिमाणं, द्वाभ्यांचार्द्धमण्डलाभ्यामेकंपरिपूर्ण मण्डलंततोऽस्य राशेट्टेकेन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विंशत्यधिकशतभागाः साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति
‘ता उउमासेण चंदे'इत्यादि, ऋतुमासेन-कर्ममासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता चोद्दसे'त्यादि चतुर्दश मण्डलानि चरति पञ्चदशस्य मण्डलस्य त्रिंशतमेकषष्टिभागान्, तथाहि-यदि एकषष्ट्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org