Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 273
________________ २७० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११४ एषा-अनन्तरोदिता मुहूर्त्तगति-प्रतिमुहूर्तचन्द्रसूर्यनक्षत्राणां गतिपरिमाणंतथाऋक्षादिमासान्नक्षत्रमासंचन्द्रमासं सूर्यमासमभिवर्द्धितमास तथा रात्रिन्दिवं तथा युगंचाधिकृत्य मण्डलप्रविभक्ति-मण्डलप्रविभागोवैविक्त्येनमण्डलसङ्ख्याप्ररूपणा इत्यर्थः तथा शीघ्रगतिरूपंवस्तुआख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवद्वचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं । प्राभृतं-१५ समाप्तम् (प्राभृतं-१६) वृ. तदेवमुक्तं पञ्चदशं प्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात'मिति तत एवंरूपमेव प्रश्नसूत्रमाह मू. (११५) ता कहं ते दोसिणालक्खणे आहितेति वदेजा? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अड्डे किंलक्खणे?, ता एकटे एगलक्खणे । ता सूरलेस्सादीय आयवेइ य आतवेतिय सूरलेस्सादीय के अटे किंलक्खणे?, ताएगढे एगलक्खणे, ता अंधकारेति यछायाइ य छायाति अंधकारेति य के अढे किंलक्खणे?, ता एगट्टे एगलक्खणे॥ वृ. ‘ता कहते'इत्यादि, ता इतिपूर्ववत कथं?-केनप्रकारेण भगवन्! ते-त्वयाज्योत्स्नालक्षणमाख्यातं इति वदेत् ?, एवं सामान्यतः पृष्टा विवक्षितप्रष्टव्यार्थप्रकटनाय विशेषप्रश्न करोति, ‘ताचंदलेसाइ'इत्यादि, ताइतिपूर्ववत्, चन्द्रलेश्याइतिज्योत्स्नाइतिअनयोः पदयोरथवा ज्योत्स्ना इति चन्द्रलेश्या इत्यनयोः पदयोः, इहाक्षराणामानुपूर्वीभेदेनार्थभेदो दृष्टः, यथा वेदो देव इति, पदानामपि चानुपूर्वीभेददर्शनादर्थभेददर्शनं यथा-पुत्रस्य गुरु गुरोः पुत्र इति, तत इहापिकदाचिदानुपूर्वीभेदादर्थभेदो भविष्यतीत्याशङ्क्तवशाञ्चन्द्रलेश्या इतिज्योत्स्ना इत्युक्त्वा ज्योत्स्ना इतिचन्द्रलेश्या इत्युक्तं, अनयोः पदयोरानुपूर्व्या अनानुपूर्व्यावा व्यवस्थितयोः कोऽर्थ?, किं परस्परं भिन्न उताभिन्न इति?, स च किंलक्षणः-किंस्वरूपो लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येन तल्लक्षणं-असाधारणं स्वरूपं किं लक्षणं-असाधारणं स्वरूपं यस्य स तथा । एवंप्रश्ने कृतेभगवानाह-'ताएगढे एगलक्खणे' इति, ताइति पूर्ववत्, चन्द्रलेश्या इति ज्योत्स्ना इत्यनयोः पदयोरानुपूर्व्या अनानुपूर्व्या वा व्यवस्थितयोरेक एव–अभिन्न एवार्थः, य एव एकस्य पदस्य वाच्योऽर्थः स एव द्वितीयस्यापि पदस्येति भावः, एगलक्खणे' इति एकंअभिन्नमसाधारणस्वरूपं लक्षणं यस्य स तथा, किमुक्तं भवति ?-यदेव चन्द्रलेश्या इत्यनेन पदेन वाच्यस्यासाधारणं स्वरूपं प्रतीयते तदेव ज्योत्स्ना इत्यनेनापि पदेन, यदेव च ज्योत्स्ना इत्यनेन पदेन तदेव चन्द्रलेश्या इत्यनेनापि पदेनेति, एवं आतप इति सूर्यलेश्या इति यदिवा सूर्यलेश्या इति आतप इति, तथा अन्धकार इति छाया इति अथवा छाया इति अन्धकार इति, तेषु पदेषु विषये प्रश्ननिर्वचनसूत्राणि भावनीयानि॥ प्राभृतं-१६ समाप्तम् (प्राभृतं-१७) वृ. तदेवमुक्तं षोडशं प्राभृतं सम्प्रति सप्तदशमारभ्यते, तस्य चायमर्थाधिकारः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340