Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 258
________________ २५५ प्राभृतं १३, प्राभृतप्राभृतं ताभ्यां भागो ह्रियते लब्धाश्चत्वारः सप्तषष्टिभागाः शेषाणि तिष्ठन्ति षट् शतानि व्युत्तराणि ततश्छेद्यच्छेदकराश्योः सप्तषष्ट्याऽपवर्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तषष्टिभागस्य नव एकत्रिंशच्छेदकृता भागाः, उक्तंच॥१॥ “एगंच मंडलं मंडलस्स सत्तट्ठिभागा चत्तारि । नव चेव चुण्णियातो इगतीसकएण छेएण॥" इह भावनांकुर्वता मण्डलं मण्डलमिति यदुक्तंतत्सामान्यतो ग्रन्थान्तरेयाप्रसिद्धा भावना तदुपरोघादवसेयं, परमार्थतः पुनरर्द्धमण्डलमवसातव्यं, ततोन कश्चित् सूत्रभावनिकयोर्विरोधः, तदेवमेकचन्द्रायअणवक्तव्यतोक्ता, सम्प्रति द्वितीयचन्द्रायणवक्तव्यताभिधीयते, तत्रयःप्रथमे चन्द्रायणेदक्षिणभागादभ्यन्तरंप्रविशन् सप्तार्द्धमण्डलानि उत्तरभागादभ्यन्तरंप्रविशन्षट्अर्द्धमण्डलानिसप्तमस्यचार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागान्चरितवान् तमधिकृत्य द्वितीयायनभावना क्रियते, तत्रायनस्यमण्डलक्षेत्रपरिमाणंत्रयोदशअर्द्धमण्डलानिचतुर्दशस्यचार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, तत्र प्राक्तनमयनमुत्तरस्यां दिशिसर्वाभ्यन्तरे मण्डले त्रयोदशसप्तषष्टिभागपर्यन्ते परिसमाप्तं, तदनन्तरं द्वितीयायनप्रवेशेचतुःपञ्चाशता सप्तषष्टिभागैः सर्वाभ्यन्तरंमण्डलंपरिसमाप्य ततो द्वितीये मण्डले चारंचरति, तत्रत्रयोदशभागपर्यन्ते एकमर्द्धमण्डलं द्वितीयस्यायनस्य परिसमाप्तं, द्वितीयमर्द्धमण्डलमुत्तरस्यां सर्वाभ्यन्तरात्तृ तीये अर्द्धमण्डले त्रयोदशभागपर्यन्तेतृतीयमर्द्धमण्डलं दक्षिणस्यां दिशिचतुर्थेऽर्द्धमण्डले चतुर्थमर्द्धमण्डलमुत्तरस्यां दिशिपञ्चमेऽर्द्धमण्डले पञ्चममर्द्धमण्डलंदक्षिणस्यां दिशिषष्ठेअर्द्धमण्डले षष्ठमर्द्धमण्डलं उत्तरस्यांदिशिसप्तमेऽर्द्धमण्डले सप्तममर्द्धमण्डलं दक्षिणस्यां दिशि अष्टमेऽर्द्धमण्डलेऽष्टममर्द्धमण्डलं उत्तरस्यां दिशि नवमे अर्द्धमण्डले नवममर्द्धमण्डलं दक्षिणस्यां दिशि द्वादशे अर्द्धमण्डले द्वादशमर्द्धमण्डलं उत्तरस्यां दिशि त्रयोदशे अर्द्धमण्डले त्रयोदशमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्दशेऽर्द्धमण्डले चतुर्दशमर्द्धमण्डलं तच्च त्रयोदशभागपर्यन्तेपरिसमाप्तं, तदनन्तरं त्रयोदश सप्तषष्टिभागान् अन्यान्चरति, एतावता द्वितीयमयनं परिसमाप्तं, चतुर्दशे च मण्डले सङक्रान्तः सन् प्रथमक्षणादूर्ध्वं सर्वबाह्यमण्डलाभिमुखं चारं चरति। ततः परमार्थतः कतिपयभागातिक्रमे पञ्चदश एव सर्वबाह्यमण्डले वेदितकव्यः, तदेवमस्मिन्नयनेपूर्वभागेन द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्तार्द्धमण्डलानिचीर्णानि, पश्चिमभागेचतृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानिषडर्द्धमण्डलानि,तत्रपूर्वभागेपश्चिमभागे वा यत् प्रतिमण्डं स्वयं चीर्णमन्यचीर्णं वा चरति तन्निरूपयति 'तादोच्चायणगए' इत्यादि, ताइति पूर्ववत् द्वितीयानगतेचन्द्र पौरस्त्यात्भागान्निष्कमति, किमुक्तं भवति?-पौरस्त्ये भागेचारंचरति, सप्तचतुःपञ्चाशत्कानि भवन्ति यानिचन्द्रः परस्येति तृतीयार्थे षष्ठी परेण सूर्यादिना चीर्णानि प्रतिचरति, सप्त च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैवचीर्णानि प्रतिचरति,इयमत्र भावना-मेरोः पूर्वस्यांदिशियोभागःसपूर्वभागोयश्चापरस्यां दिशिस पश्चिमभागः, तत्र पूर्वभागे सप्तस्वपि द्वितीयादिष्वेकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तषष्टिभागप्रविभक्तेषुप्रत्येकं चतुःपञ्चाशतंसप्तषष्टिभागान्चन्द्रः परेण सूर्यादिनाचीर्णान्प्रतिचरति, त्रयोदश त्रयोदश सप्तषष्टिभागान् स्वयंचीर्णानिति । Jain Education International For Private & Personal Use Only For www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340