Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०८ श्चामावास्याः प्रज्ञप्ताः, तथा युगे चन्द्रमस एते - अनन्तरोदितस्वरूपाः कृत्स्नाः - परिपूर्णा रागा द्वाषष्टिरमावास्यानां युगे द्वाषष्टिसङ्ख्याप्रमाणत्वात् तास्वेव च चन्द्रमसः परिपूर्णरागसम्भवात्, एते - अनन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागाः सर्वात्मना रागाभावा द्वाषष्टि युगे पौर्णमासीनां द्वाषष्टिसङ्ख्याकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात्, तथा युगे सर्वसङ्ख्यया एकं चतुर्विंशत्यधिकं पर्वशतं अमावास्यापौर्णमासीनामेव पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वाषष्टिसङ्खयानामेकत्र मीलने चतुर्विंशत्यधिकशतभावात्, एवमेव च युगमध्ये सर्वसङ्क्लनया चतुर्विंशत्यधिकं कृत्स्नरागविरागशतं ।
‘जावइयाण’मित्यादि, यावन्तः पञ्चानां चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्धितरूपाणां समया एकेन चतुर्विंशत्यधिकेन समयशतेनोना एतावन्तः परीत्ताः - परिमिताः असङ्ख्याता देशरागविरासमया भवन्ति, एतेषु सर्वेष्वपि चन्द्रमसो देशतो रागविरागभावात्, यत्तु चतुर्विंशत्यधिकं समयशतं तत्र द्वाषष्टिसमयेषु कृत्स्नो रागो द्वाषौ च समयेषु कृत्स्नो विरागस्तेन तद्वर्ज्जनं इत्याख्यातं, मयेति गम्यते, एतच्च भगवद्वचनमतः सम्यक् श्रद्धेयमिति, सम्प्रति कियत्सु मुहूर्त्तेषु गतेष्वमावास्यातोऽनन्तरं पौर्णमासी कियत्सु वा मुहूर्त्तेषु गतेषु पौर्णमास्या अनन्तरमवास्या इत्यादि निरूपयति
'ता अमावासातो ण' मित्यादि, सुगमं, नवरं अमावास्याया अनन्तरं चन्द्रमासस्यार्द्धेन पौर्णमासी पौर्णमास्या अनन्तरमर्द्धमासेन चन्द्रमासस्यामावास्या अमावास्यायाश्चामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोक्ता मुहूर्तसङ्ख्या, उपसंहारमाह- 'एस ण' मित्यादि, एषः - अष्टौ मुहूर्त्तशतानि पञ्चाशीत्यधिकानि द्वात्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्येत्येतावान् - एतावप्रमाणश्चन्द्रमासः, एतत् एतावत्प्रमाणं शकलं खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेति दित्यर्थः ।
सम्प्रति चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थं प्रश्नसूत्रमाह
२५०
मू. (१०९) ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोद्दस चउब्भागमंडलाइं चरति एगं च चउवीस सतभां मंडलस्स, (ता) आइच्चेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, (ता) सोलस मंडलाई चरति सोलसमंडलचारी तदा अवराइं खलु दुवे अट्टकाई जाई चंदे केणइ असामन्नकाइं सयमेव पविट्ठित्ता २ चारं चरति ।
कतराई खलु दुवे अट्ठाई जाई चंदे केणइ असामण्णकाई सयमेव पविट्ठित्ता २ चारं चरति ? इमाई खलु ते बे अट्ठगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्ठित्ता २ चारं चरति, तंजहा - निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णिमासिंतेणं, एताइं खलु दुवे अट्टगाई जाई चंदे केणइ असामण्णगाइं सयमेव पविट्ठित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाए पविसमाणे चारं चरति । कतराई खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति इमाई खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, तं० - बिदिए अद्धमंडले चउत्थे अद्धमंडले छट्टे अद्धमंडले अट्टमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले चउदसमे अद्धमंडले एताइं खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तट्ठिभागाईं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340