________________
२४४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०५
शतेन त्रयो नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चात् चत्वारि मुहूर्त्तशतान्यष्टोत्तराणि मुहूर्त्तगतानां चद्वाषष्टिभागानां पञ्चोत्तरं शमेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागाः तत एतेभ्यः स्त्रभि शतैर्नवनवत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चान्नव मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानामशीति एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागाः द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्त्तो लब्धः स मुहूर्त्तराशौ प्रक्षिप्यते जाता दश मुहूर्त्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागा अष्टादश तत आगतं पुष्यस्य एकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रशति सप्तषष्टिभागेषु शेपेषु तृतीया माघमासभाविन्यावृत्ति प्रवर्त्तते ।
सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं । चतुर्थमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह - ‘ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता मूलेण' मित्यादि, ता इति प्राग्वत् मूलेन युक्तश्चन्द्रः चतुर्थी हेमन्तीमादृत्ति प्रवर्त्तयति, तदानीं च मूलस्य-मूलनक्षत्रस्य षट् मुहूर्ता एकस्य च मुहूर्त्तस्याटापञ्चाशत् द्वाषष्टिभागा एकं च द्वाषटिभां सप्तषष्टिधा छित्वा तस्य सत्का विंशतिश्चूर्णिका बागाः शेषाः, तथाहि - चतुर्थी माघमासभाविन्यावृत्ति पूर्वप्रदर्शितक्रमापेक्षया अष्टमी तस्याः स्थानेऽटको ध्रियते स रूपोनः कार्य इति जातः सप्तकस्तेन स प्राक्तनो ध्रुवराशि गुण्यते जातान्येकादशोत्तराणि चत्वारिंशन्मुहूर्त्तशतानि मुहूर्त्तगतानं च द्वाषष्टिभागानां द्वे शते द्विपञ्चाशदधिके एकस्य च द्वाषष्टिभागस्य द्वाचत्वारिंशत् सप्तषष्टिभागाः तत एतेभ्यः षट्सप्तत्यधिकैर्द्वात्रिंशच्छतैर्मुहूर्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां षन्नवत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यामष्टषष्ट्यधिकाभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः स्थितानि पश्चान्मुहूर्तानां सप्तशतानि पञ्चत्रिंशदधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्विपञ्चाशदधिकं शतं एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत्सप्तष्टिभागाः तत एतेभ्यो भूयः षड्भिः शतैः मुहूर्तानामेकोनसप्तयदिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि विशाखापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् षट्षष्टिर्मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानां सप्तविंशत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः, चतुर्विंशत्यधिकेन च द्वाषष्टिभागशतेन द्वौ मुहूर्ती लब्धौ तौ मुहूर्तराशौ प्रक्षिप्येते जाताः अष्टषष्टिर्मुहूर्त्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागास्त्रयः ततः पञ्चचत्वारिंशता मुहूर्तेरनुराधाज्येष्ठे शुद्धे शेषाः स्थितास्त्रयोविंशतिर्मुहूर्त्ताः तत आगतं मूलस्य षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्याष्टापञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य विंशती सप्तषष्टिभागेषु शेषेषु चतुर्थी माघमासभाविन्यावृत्ति प्रवर्त्तते सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं पञ्चममाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह
'ता एएसि ण'मित्यादि, सुगमं, भगवानाह - 'ता कत्तियाहिं' इत्यादि, ता इति पूर्ववत्, कृत्तिकाभिर्युक्तश्चन्द्रः पञ्चमीं हेमन्तीं (माघ) मासभाविनीमावृत्ति प्रवर्त्तयति, तदानीं च कृत्तिकानक्षत्र्य अष्टादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य षट्त्रिंशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का षट् चूर्णिकभागाः शेषाः, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org