SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १२, प्राभृतप्राभृतं २४५ पञ्चमी माघमास भाविन्यावृत्ति प्रागुपदर्शितक्रमापेक्षया दशमी ततस्तस्याः स्थाने दशको धियते, सरूपोनः कार्य इति जातो नवकः, तेन प्राक्तनो ध्रुवराशि गुण्यते, जातान्येकपञ्चाशच्छतानि सप्तपञ्चाशदधिकानि मुहूर्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां त्रीणि शतानि चतुर्विंशत्यधिकानि एकस्य च द्वाषषष्टिभागस्य चतुःपञ्चाशत् सप्तषष्टिभागाः तत एतेभ्य एकोनपञ्चाशच्छतैर्मुहूत्तैः चतुर्दशाधिकैर्मुहूर्तगतान च द्वाषष्टिभागानां चतुश्चत्वारिंशदधिकेन शतेन द्वाषष्टिभागगतानां च सप्तषष्टिभागानां त्रिभि शतैः षन्नवत्यधिकैः षट् नक्षत्रपर्यायाः शुद्धाः स्थिते पश्चान्मुहूर्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्तगतानां त्रिभिः शतैः षन्नवत्यधिकैः षट् नक्षत्रपर्यायाः शुद्धाः, स्थिते पश्चान्मुहूर्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्त्तगतानां च द्वाषष्टिभागानां चतुःसप्तत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य षष्टि सप्तषष्टिभागाः तत एकोनषष्ट्यधिकेन मुहूर्त्तशतेन एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाष- ष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापयन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चतुरशीतिर्मुहूर्त्तगतानां च द्वाषष्टिभागानां शतमेकोनपञ्चाशदधिक एकस्य च द्वाषष्टिभागस्य एकषष्टि सप्तषष्टिभागाः ततो द्वाषष्टिभागानां चतुर्विंशत्यधिकेन शतेन द्वौ मुहूर्ती लब्धौ पश्चात् स्थिताः पञ्चविंशतिद्वषष्टिभागाः, लब्धौ च मुहूर्ती मुहूर्त्तराशौ प्रक्षिप्येते, जाता षडशीतिन्मुहूर्तानां, ततः पञ्चसप्तत्या मुहूर्तानां रेवत्यश्विनीभरण्यः शुद्धाः, स्थिताः पश्चादेकादश मुहूर्त्ताः, शेषं तथैव तत आगतं - कृत्तिकानक्षत्रस्याष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु पञ्चमी हैमन्ती आवृत्ति प्रवर्त्तते, सूर्यनक्षत्रयोगविषये च प्रश्ननिवचनसूत्रे सुगमे । तदेवमुक्ता दशापि नक्षत्रयोगमधिकृत्य सूर्यस्यावृत्तयः, सम्प्रति चन्द्रस्य वक्तव्यास यस्मिन्नेव नक्षत्रे वर्त्तमानः सूर्यो दक्षिणा उत्तरा वा आवृत्तीः करोति तस्मिन्नेव नक्षत्रे वर्त्तमान-श्वन्द्रोऽपि दक्षिणा उत्तराश्चवृत्तीः कुरुते, ततो या उत्तराभिमुखा आवृत्तयो युगे चन्द्रस्य द्दष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्याः यास्तु दक्षिणाभिमुखास्ता पुष्येण योगे, उक्तं च"चंदस्सवि नायव्वा आउट्टीओ जुगंमि जा दिट्ठा । 119 11 अभिणं पुस्सेण य नियमं नक्खत्तसेसेणं ॥" अत्र 'नक्खत्तसेसेणं' ति नक्षत्रार्द्धमासेन, शेषं सुगमं, तत्राभिजित्युत्तराभिमुखा आवृत्तयो भाव्यन्ते, यदि चतुस्त्रिंशदधि केनायनशतेन चन्द्रस्य सप्तषष्टिर्नक्षत्रपर्याया लभ्यन्ते ततः प्रथमेऽयने किं लभ्यते ? अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तषष्टिरूपस्य गुणनं जाता सप्तषष्टिरेव 'एकेन गुणितं तदेव भवती' ति वचनात्, तस्याश्च सप्तषष्ट्रेश्चतुस्त्रिंशदधिकेन शतेन भागे हृते लब्धमेकमर्द्ध पर्यायस्य तस्मिंश्चार्द्धे नव शतानि पञ्चदशोत्तराणि सप्तषष्टिभागानां भवन्ति, तत्र त्रयोविंशतौ सहयष्टिभागेषु पुष्यनक्षत्रस्य भुक्तेषु दक्षिणायनं चन्द्रः कृतवान्, ततः शेषाञ्चतुश्चत्वारिंशत् सप्तषष्टिभागा अनन्तरोदितराशेः शोध्यन्ते, स्थितानि शेषाणि अष्टौ शतान्येकसप्तत्यधिकानि तेषां सप्तषष्ट्या भागो हियते, इह कानि- चिन्नक्षत्राणि अर्द्धक्षेत्राणि तानि च सार्द्धत्रयस्त्रिंशत्सप्तषष्टिभागप्रमाणानि कानिचित्समक्षेत्राणि तानि परिपूर्णसप्तषष्टिभागप्रमाणानि कानिचिद्यद्वयर्द्धक्षेत्राणि तान्यर्द्धभागाधिकशतसङ्घयसप्तषष्टिभागप्रमाणानि, गात्रं त्वधिकृत्य सप्तषष्ठ्या शुद्धयन्तीति सप्तपश्या भागहरणं, लब्धास्त्रयोदश, राशिश्चोपरितनो निर्लेपतः शुद्धः, 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy