________________
प्रामृतं १२, प्राभृतप्राभृतं
२४३ सप्तषष्टिभागाः पाश्चात्ये अयने पुष्यस्य गताः शेषाश्चतुश्चत्वारिंश- त्सप्तषष्टिभागाः स्थिताः ते साम्प्रतमितो राशेः शोध्यन्ते स्थितानि शेषाण्यष्टौ शतान्येकसप्तत्यधिकानि तेषां सप्तषष्ट्या भागे हृते लब्धास्त्रयोदशपश्चान्न किमपि तिष्ठति, त्रयोदशभिश्चाश्लेषा-दीन्युत्तराषाढापर्यन्तानिनक्षत्राणि शुद्धानि, तत आगतं-अभिजितोनक्षत्रस्य प्रथमसमयेमाघमास-भाविनीप्रथमा आवृत्ति प्रवर्तते, एवं सर्वा अपि माघमासभाविन्य आवृत्तयः सूर्यनक्षत्रयोगमधिकृत्य वेदितव्याः, उक्तं च॥१॥ “बाहिरओ पविसंतो आइच्चो अभिइजोगमुवगम्म।
सव्वा आउट्टीओ करेइ सो माघमासंमि ।।" द्वितीयहेमन्तावृत्तिविषयंप्रश्नसूत्रमाह-‘ता एएसिण'मित्यादि, सुगमं, भगवानाह-'ता सयभिसयाहिं' इत्यादि, ताइति पूर्ववत्, शतभिषजायुक्तश्चन्द्रोद्वितीयांहैमन्तीमावृत्तिं प्रवर्त्तयति, तदानीं च शतभिषजो नक्षत्रस्य द्वौ मुहूर्तावेकस्य च मुहूर्तस्याष्टाविंशतिषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काः षट्चत्वारिंशचूर्णिका भागाः शेषाः, तथाहि
प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमास भाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने चतुष्को ध्रियते स रूपोनः कार्य इति जातस्त्रकः तेन प्राक्तनो ध्रुवराशि गुण्यते जातानि सप्तदश शतान्येकोनविंशत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानमष्टोत्तरं शतं एकस्य च द्वाषष्टिभागस्याटादश सप्तषष्टिभागाः तत एतेभ्यः षोडशभिःशतैरष्टात्रि-शदधिकैर्मुहूर्तानामेकस्य चमुहूर्तस्याप्टाचत्वारिंशता द्वाषष्टिभागैरेकद्वाषष्टिभागसत्कानांच सप्पष्टिभागानांद्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायौ शुद्धौ, स्थिताः पश्चादेका-शीतिर्मुहूर्त्तानामेकस्य च मुहूर्तस्याष्टापञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य विंशति सप्तषष्टिभागाः ततो भूयो नवभिर्मुहूतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरे-कस्यच द्वाषष्टिभागस्वषट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धं, स्थिताः पश्चाद् द्वासप्ततिर्मुहूर्त्ता एकस्य च मुहूर्तस्य त्रयस्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यैकविंशति सप्तषष्टिभागाः ततस्त्रिंशता मुहूत्तैः श्रवणः शुद्धस्त्रशता धनिष्ठा पश्चादवतिष्ठन्ते द्वादश मुहूर्ताः, शतभिषकनक्षत्रंचार्द्धनक्षत्रं, तत आगतं शतभिषजो नक्षत्रस्य द्वयोर्मुहूर्तयोरेकस्य च मुहूर्त्तस्याष्टा-विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषुशेषेषुद्वितीया हैमन्ती आवृत्तिप्रवर्तते। सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, प्रागेव भावितत्वात् __अधुना तृतीयमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-‘ता एएसिण'मित्यादि, सुगम, भगवानाह–'तापूसेण मित्यादि, ता इतिप्राग्वत्पुष्येणयुक्तश्चन्द्रस्तृतीयांमाघमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानींचपुष्यस्य एकोनविंशतिर्मुहूर्ता एकस्य चमुहूर्तस्य त्रिचत्वारिंशद्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रिंशच्चूर्णिका भागाः शेषाः, तथाहिप्रागुपदर्शितक्रमापेक्षया तृतीया माघमासभाविन्यावृत्ति षष्ठी तस्तस्याः स्थाने षट्को ध्रियते स रूपोनः कार्य इति जातः पञ्चकस्तेन स प्राक्तनो ध्रुवराशि गुण्यते जातान्यष्टाविंशति शतानि पञ्चषष्ट्यधिकानिमुहूर्तानांमुहूर्तगतानांचद्वाषष्टिभागानामशीत्यधिकंशतंएकस्यच द्वाषष्टिभागस्य त्रिंशत् सप्तषष्टिभागाः तत एतेभ्यः सप्तपञ्चाशदधिकैः चतुर्विंशतितैर्मुहूर्तानामेकमुहूर्तगतानां चट्टा भागानां द्विसप्तत्या एकस्यच द्वाषषष्टिभागस्य सत्कानां सप्तषष्टिभागानामष्टानवत्यधिकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org