Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्राभृतं १०, प्राभृतप्राभृतं - २२
१९१
युङ्क्तः - परिसमापयतः, नो चैव पौर्णमासीं, अथ कथमेतदवसीयते, यथा युगे युग चतुश्चत्वारिंशत्तमा २ ममावास्यां सदैव प्रातः समये अभिजिन्नक्षत्रं चन्द्रेण सार्द्धं योगमुपागम्य परिसमापयतीति ?, उच्यते, पूर्वाचार्योपदर्शितकरणवशात्, तथाहि - तिथ्यानयनार्थं तावत्करणमिदं
119 11
‘तिहिरासिमेव बावट्ठिभाइया सेसमेगसट्ठिगुणणं च । बावट्ठीए विभत्तं सेसा अंसा तिहिसमत्ती ॥'
अस्या अक्षरगमनिका -ये युगमध्ये चन्द्रमासा अतिक्रान्तास्ते तिथि राश्यानयनार्थं त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वाषष्ट्या हियते, हृते च भागे यदवतिष्ठते तस्मिन्नेकषष्ट्या गुणयित्वा द्वाषष्ट्या विभक्ते ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षिततिथिपरिसमाप्ति, ततश्चतुश्चत्वारिंशत्तमायाममावास्यायां चिन्त्यमानायां त्रिचत्वारिंशच्चन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततस्त्रचत्वारिंशत्रिशता गुण्यन्ते, जातानि द्वादश शतानि नवत्यधिकानि तत उपरितनाः पर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि त्रयोदश शतानि पञ्चोत्तराणि तेषां द्वाषष्ट्या भागो हियते लब्धा एकविंशति, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकषष्ट्या गुण्यन्ते, जातं त्र्यशीत्यधिकं शतं, तस्य द्वाषष्ट्या भागे ह्वते लब्धौ द्वौ तौ त्यक्तौ, शेषा तिष्ठत्येकोनषष्टि, आगतमेकोनषष्टिर्द्वाषष्टिभागास्तस्मिन् दिनेऽमावास्या ।
1
1
,
अमावास्यासु पौर्णमासीषु च नक्षत्रानयनार्थं प्रागुक्तमेव करणं, तत्र ध्रुवराशि, षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः तत्र चतुश्चत्वारिंशत्तमा अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहूर्तानामेकोनत्रिंशच्छतानि चतुरुत्तराणि एकस्य च मुहूर्त्तस्य द्वाषष्टिभागानां द्वे शते विंशत्यधिके एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः, तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुहर्त्तानामेकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः इत्येवंप्रमाणं शोध्यते । जातानि मुहूर्त्तानां चतुर्विंशति शतानि द्वाषष्ट्यधिकानि एकस्य च मुहूर्त्तस्य चतुःसप्तत्यधिकं शतं द्वाषष्टिभागानां, ततोऽभिजिदादिसकलनक्षत्रमण्डलशोधनकमष्टौ शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः इत्येवंप्रमाणं यावत्सम्भवं शोधनीयं तत्र त्रिगुणमपि शुद्धिमासादयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् षण्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तत्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः आगतं चतुश्चत्वारिंशत्तमाममा वास्यायामभिजिन्नक्षत्रं षट्सु मुहूर्त्तेषु सप्तमस्य च मुहूर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति ।
1
सम्प्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणां चिकीर्षुरिदमाह
मू. (९०) तत्थ खलु इमाओ बावट्ठि पुण्णिमासिणीओ बावट्ठि अमावासाओ पन्नत्ताओ, ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणिं चंदं किंसि देसंसि जोएइ ?
ताजंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णिमासिणि जोएति ताए तेणं पूण्णिमासिणिठ्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णिमासिणि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340