Book Title: Agam Sutra Satik 08 Antkrutddasha AngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 19
________________ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ 'निंदु' त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति तांश्च सा वन्दत इति । 'आगयपण्हय'त्ति आगतप्रश्नवा - पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणे' ति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'कंचुयपरिक्खित्त' त्ति परिक्षीप्तो विस्तारित इत्यर्थः कञ्चुकोवारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलवबाह 'ति दीर्णवलयौहर्षरोमाञ्चस्थूलत्वात् स्फुटितकटकौ बाहू - भुजौ यस्याः सा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुप्फगंपिव समूससियरोमकूवा' धाराभिः - मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा । 'अयमब्भथिए' त्ति इहैवं श्यम् -'अयमेयारूवे अम्मत्थिए चिंतिते पत्थिए मनोगए संकप्पे समुप्पज्जित्या' तत्रायमेतद्रूपः आध्यात्मिकः - आत्माश्रितञ्चिन्तितः - स्मरणरूपः प्रार्थितः - अमिला - रूपो मनोगतो- मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः । 'धन्नाओ णं ताओ' इत्यादि, धन्या धनमर्हन्ति लस्त्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बाः - स्त्रियः पुण्याः - पवित्राः क - तपुण्याः कृतार्थाः - कृतप्रयोजनाः कृतलक्षणाः- सफलीकृतलक्षणाः 'जासिं' ति यासां मन्ये इति वितर्कार्थो निपातः निजककुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनंअव्यक्तमीषत्स्खलितं प्रजल्पितं येषां तानि तथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्ति मुग्धकानिअत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मलप्रभणितान् मजुलं - मधुरं प्रभणितं भणितिर्येषु ते तथा तान् इह सुमधुरानित्यभिधाय यन्मञ्जुलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति, ३२८ - 'एत्तो 'ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि - अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनः सङ्कल्पा भूतदष्टिका करतले पर्यस्तितमुखी ध्यायति । 'तहा धत्तिस्सामि' त्ति यतिष्ये 'कणीयसे' त्ति कनीयान् - कनिष्ठो लघुरित्यर्थः । 'जहा अभओ' त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं - केवलमयं विशेषः अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान् स तु पूर्वसङ्गतिकस्य देवस्येति, 'विइण्णं' ति वितीर्ण- दत्तं युषामाभिरिति गम्यते, 'तंसि तारिसगंसी' त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासत्ताणं पडिबुद्धा जाव' त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग 'त्ति स्वप्नापाठकानाकारयति तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहइ' त्ति सुखंसुखेन गर्भं परिवहतीति द्रष्टव्यमिति, 'जासुमिणे 'त्यादि जपा- वनस्पतिविशेषस्तस्याः सुमनसः पुष्पाणि रक्तबन्धुजीवकंलोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो- यावकः 'सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं 'तरुणदिवाकरः' उदयद्दिनकरः एतैः समा - एतप्रभातुल्येत्यर्थः प्रभा - वर्णो यस्य स तथा रक्त इत्यर्थः तं सर्वस्य जनस्य नयनानां कान्तः - कमनीयोऽभिलषणीय इत्यर्थः सर्वनयनकान्तस्तं 'सूमाले' त्ति 'सुकुमालपाणिपाय'मित्यादिवर्णको दृश्यो यावत्स्वरूपमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58