Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं २५, वर्ग:-, उद्देशकः-४
४०३
निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, निरेए'त्ति निश्चलः । बहुत्वसूत्रे सव्वद्धं'ति सर्बाद्धां-सर्वकालं परमाणवः सैजाः सन्ति, नहि कश्चित् स समयोऽस्तिकालत्रयेऽपि यतरपरमाणवः सर्वएवन चलन्तीत्यर्थः, एवंनिरेजाअपिसद्धिामिति
___ अथ परमाण्वादीनांसैजत्वाद्यन्तरमाह-'परमाणु'इत्यादि, सट्टानंतरंपडुच्च'त्ति स्वस्थान-- परमाणोः परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरंतप्रतीत्य 'जहन्नेणंएक्कं समयंतिनिश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेज्नं कालं'ति निश्चलतायाएवोत्कृष्टकाललक्षणं,तत्र जघन्यतोऽन्तरंपरमाणुरेकं समयंचलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्खयेयं कालं कचिस्थिरो भूत्वा पुनश्चलतीत्येवं श्यमिति ।
'परट्ठानंतरंपडुच्च'त्ति परमाणोर्यत्परस्थाने-द्वयणुकादावन्तर्भूतस्यान्तरं-चलनव्यवधानं तत्परस्थानान्तरंतप्रतीत्येति 'जहन्नेणं एवं समयं उक्कोसेणं असंखेनं कालं'ति, परमाणुपुद्गलो हि भ्रम द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं समयंस्थित्वापुनाम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति।
__ "निरेयस्से त्यादि, निश्चलः सन्जघन्यतः समयमेकंपरिभ्रम्यपुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्ख्येयंभागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाचलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्ख्येयं कालं तेन सह स्थित्वा पृथग्भूत्वा पुनस्तिष्ठति।
'दुपएसियस्से'त्यादि, 'उक्कोसेणं अनंतं कालं'ति, कथम् ?, द्विप्रदेशिकः संचलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वनन्तेन कालेन पुनस्ते व माणुना सह सम्बन्धं प्रतिपद्य पुनश्चलतीत्येवमिति ॥ सैजादीनामेवाल्पबहुत्वमाह-'एसि ॥'मित्यादि, 'निरेया असंखेजगुण त्तिस्थितिक्रियायाऔत्सर्गिकत्वादहुत्वमिति, अनन्तप्रदेशिकेषुसैजाअनन्तगुणावस्तुस्वभावात्।
एतदेव द्रव्यार्थप्रदेशार्थोभयार्निरूपयन्नाह-एएसि णमित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टी पदानि, एवं प्रदेशार्थतायामपि, उभयार्थतायांतुचतुर्दशसैजपक्षे निरेजपक्षे चपरमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यााप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात, अथ पएसठ्ठयाए एवंचेव' इत्यत्रातिदेशेयो विशेषीऽसावुच्यते-'नवरं परमाणु' इत्यादि, परमाणुपदेप्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रेतु तेतेभ्योऽसद्धयेयगुणावाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु चमध्ये बहूनामुत्कृष्ट सङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते ? देशतोऽसङ्घयेयगुणा भवन्ति उत्कृष्टसङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भाषादिति।
___ अथ परमाण्वादीनेव सैजत्वादिना निरूपयवाह-'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् सङ्घययादीनां तुत्रयाणां प्रत्येकंदेशैजसवैजनिरेजत्वैर्विशेषणादेकादशपदानि भवन्ति, एवंप्रदेशार्थतायामपि, उभयार्थतायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096