Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1054
________________ शतकं - ३४/१, वर्ग:-१, उद्देशक:- १ 119 11 यामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गति सम्भवति, यदाऽघोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः"सुत्ते च समयाओ नत्थि गई उपरा विणिद्दिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई लोए ।। जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । उवज गईए सो नियमा पंचसमयाए । उजुयायतेगका दुहओवंका गई विणिद्दिट्ठा । जुज्जइ य तिचउवंकावि नाम चउपंचसमयाए ॥ उववायाभावाओ न पंचसमयाऽहवा न संतावि । भणिया जह चउसमया महल्लबंधे न संतावि ॥ ॥ २ ॥ ॥३॥ ॥४॥ ४८७ 'अपज्जत्ताबायर उक्काइए ण' मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्ज' त्ति, एतस्येयं भावना - समयक्षेत्रादेकेन समयेनोर्ध्व गतौ द्वितीयेन तु नाड्या बहिर्दिव्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तु नाड्या बहि पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति । अथ लोकचरमान्तमाश्रित्याह- 'अपज्जत्तासुहुमपुढविकाइए णं भंते ! लोगस्से' त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिका श्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसर्तव्यानीति, इह च लोकस्य पूर्चरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गति संभवति, अनुश्रेणिविश्रणिसम्भवात्, पूर्वचरमान्तात्पनुर्दक्षिणचरमान्ते उत्पद्यमानस्य छ्यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति । एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह - "कहिं ण' मित्यादि, 'सङ्घाणेणं' ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यरथः 'जहा ठाणपदे 'त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदं, तच्चैवं- 'तंजहा - रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यैौघतः 'अविसेसमणाणत्त' त्ति अविशेषाः - विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अनाणना' त्ति अनानात्वाः- नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः 'सव्वलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्त्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे ‘बेउव्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति । एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह - 'एगिंदिया णमित्यादि, 'तुल्लट्ठिय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति' त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असङ्घयेयभागादिनाऽधिकं- पूर्वकालबद्धकमपिक्षयाऽधिकतरं तुल्य विशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बघ्नन्ति १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096