________________
शतकं - ३४/१, वर्ग:-१, उद्देशक:- १
119 11
यामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीये ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योक्तं, अन्यथा पञ्चसामयिक्यपि गति सम्भवति, यदाऽघोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः"सुत्ते च समयाओ नत्थि गई उपरा विणिद्दिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई लोए ।। जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । उवज गईए सो नियमा पंचसमयाए । उजुयायतेगका दुहओवंका गई विणिद्दिट्ठा । जुज्जइ य तिचउवंकावि नाम चउपंचसमयाए ॥ उववायाभावाओ न पंचसमयाऽहवा न संतावि । भणिया जह चउसमया महल्लबंधे न संतावि ॥
॥ २ ॥
॥३॥
॥४॥
४८७
'अपज्जत्ताबायर उक्काइए ण' मित्यादौ, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्ज' त्ति, एतस्येयं भावना - समयक्षेत्रादेकेन समयेनोर्ध्व गतौ द्वितीयेन तु नाड्या बहिर्दिव्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोर्ध्वं याति द्वितीयेन तु नाड्या बहि पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ।
अथ लोकचरमान्तमाश्रित्याह- 'अपज्जत्तासुहुमपुढविकाइए णं भंते ! लोगस्से' त्यादि, इह च लोकचरमान्ते बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिका श्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसर्तव्यानीति, इह च लोकस्य पूर्चरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गति संभवति, अनुश्रेणिविश्रणिसम्भवात्, पूर्वचरमान्तात्पनुर्दक्षिणचरमान्ते उत्पद्यमानस्य छ्यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति ।
एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह - "कहिं ण' मित्यादि, 'सङ्घाणेणं' ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यरथः 'जहा ठाणपदे 'त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदं, तच्चैवं- 'तंजहा - रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यैौघतः 'अविसेसमणाणत्त' त्ति अविशेषाः - विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अनाणना' त्ति अनानात्वाः- नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः 'सव्वलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्त्तन्त इति भावना, तत्रोपपात-उपपाताभिमुख्यं समुद्घात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते ।
समुद्घातसूत्रे ‘बेउव्वियसमुग्धाए'त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति । एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह - 'एगिंदिया णमित्यादि, 'तुल्लट्ठिय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति' त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असङ्घयेयभागादिनाऽधिकं- पूर्वकालबद्धकमपिक्षयाऽधिकतरं तुल्य विशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बघ्नन्ति १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org