SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ शतकं २५, वर्ग:-, उद्देशकः-४ ४०३ निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, निरेए'त्ति निश्चलः । बहुत्वसूत्रे सव्वद्धं'ति सर्बाद्धां-सर्वकालं परमाणवः सैजाः सन्ति, नहि कश्चित् स समयोऽस्तिकालत्रयेऽपि यतरपरमाणवः सर्वएवन चलन्तीत्यर्थः, एवंनिरेजाअपिसद्धिामिति ___ अथ परमाण्वादीनांसैजत्वाद्यन्तरमाह-'परमाणु'इत्यादि, सट्टानंतरंपडुच्च'त्ति स्वस्थान-- परमाणोः परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरंतप्रतीत्य 'जहन्नेणंएक्कं समयंतिनिश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेज्नं कालं'ति निश्चलतायाएवोत्कृष्टकाललक्षणं,तत्र जघन्यतोऽन्तरंपरमाणुरेकं समयंचलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्खयेयं कालं कचिस्थिरो भूत्वा पुनश्चलतीत्येवं श्यमिति । 'परट्ठानंतरंपडुच्च'त्ति परमाणोर्यत्परस्थाने-द्वयणुकादावन्तर्भूतस्यान्तरं-चलनव्यवधानं तत्परस्थानान्तरंतप्रतीत्येति 'जहन्नेणं एवं समयं उक्कोसेणं असंखेनं कालं'ति, परमाणुपुद्गलो हि भ्रम द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं समयंस्थित्वापुनाम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति। __ "निरेयस्से त्यादि, निश्चलः सन्जघन्यतः समयमेकंपरिभ्रम्यपुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्ख्येयंभागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाचलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्ख्येयं कालं तेन सह स्थित्वा पृथग्भूत्वा पुनस्तिष्ठति। 'दुपएसियस्से'त्यादि, 'उक्कोसेणं अनंतं कालं'ति, कथम् ?, द्विप्रदेशिकः संचलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वनन्तेन कालेन पुनस्ते व माणुना सह सम्बन्धं प्रतिपद्य पुनश्चलतीत्येवमिति ॥ सैजादीनामेवाल्पबहुत्वमाह-'एसि ॥'मित्यादि, 'निरेया असंखेजगुण त्तिस्थितिक्रियायाऔत्सर्गिकत्वादहुत्वमिति, अनन्तप्रदेशिकेषुसैजाअनन्तगुणावस्तुस्वभावात्। एतदेव द्रव्यार्थप्रदेशार्थोभयार्निरूपयन्नाह-एएसि णमित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टी पदानि, एवं प्रदेशार्थतायामपि, उभयार्थतायांतुचतुर्दशसैजपक्षे निरेजपक्षे चपरमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यााप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात, अथ पएसठ्ठयाए एवंचेव' इत्यत्रातिदेशेयो विशेषीऽसावुच्यते-'नवरं परमाणु' इत्यादि, परमाणुपदेप्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रेतु तेतेभ्योऽसद्धयेयगुणावाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु चमध्ये बहूनामुत्कृष्ट सङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते ? देशतोऽसङ्घयेयगुणा भवन्ति उत्कृष्टसङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भाषादिति। ___ अथ परमाण्वादीनेव सैजत्वादिना निरूपयवाह-'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् सङ्घययादीनां तुत्रयाणां प्रत्येकंदेशैजसवैजनिरेजत्वैर्विशेषणादेकादशपदानि भवन्ति, एवंप्रदेशार्थतायामपि, उभयार्थतायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy